________________
दश० २९
Jain Education
सूत्रार्थः ॥ २७ ॥ 'आहरंति' त्ति सूत्रम्, 'आहरन्ती' आनयन्ती भिक्षामगारीति गम्यते 'स्यात्' कदाचित् 'तत्र' देशे 'परिशादयेद् इतश्चेतश्च विक्षिपेद् भोजनं वा पानं वा, ततः किमित्याह - ददतीं 'प्रत्याचक्षीत' प्रतिषेधयेत्तामगारी, रूयेव प्रायो भिक्षां ददातीति स्त्रीग्रहणं, कथं प्रत्याचक्षीतेत्यत आह-न मम कल्पते तादृशं परिशादनावत्, समयोक्तदोषप्रसङ्गात्, दोषांश्च भावं ज्ञात्वा कथयेद् मधुविन्दूदाहरणादिनेति सूत्रार्थः ॥ २८ ॥ किंच- 'संमद्द' त्ति सूत्रं, 'संमर्दयन्ती' पद्भ्यां समाक्रामन्ती, कानित्याह- 'प्राणिनो' द्वीन्द्रियादीन् 'बीजानि' शालिबीजादीनि 'हरितानि' दूर्वादीनि 'असंयमकरीं' साधुनिमित्तमसंयमकरणशीलां ज्ञात्वा तादृशीं परिवर्जयेत्, ददतीं प्रत्याचक्षीत इति सूत्रार्थः ॥ २९ ॥
साहद्दु निक्खिवित्ताणं, सचित्तं घट्टियाणि य । तहेव समणट्टाए, उदगं संपणुलिया ॥ ३० ॥ ओगाहइत्ता चलइत्ता, आहरे पाणभोअणं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ३१ ॥ पुरेकम्मेण हत्थेण, दव्वीए भायणेण वा । दिंतिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ ३२ ॥ एवं उदउले ससिणिद्धे, ससरक्खे महिआउसे । हरि
१ मधु क्षीरे जले मये इति हेमोकेर्वारत्तककथाप्रतिपादित क्षीरे यी दृष्टान्तोऽत्र गम्यः.
For Private & Personal Use Only
jainelibrary.org