________________
दशवैका० हारि-वृत्तिः
॥१४५॥
इहिं असोहिए सीसे ण वयारोवणं किजइ सोहिए किज्जइ, असोहिए य करणे गुरुणो दोसा, सोहियापालणे
४ षड्जीवसिस्सस्स दोसो त्ति कयं पसंगेण । यदुक्तम्-'सर्व भदन्त! प्राणातिपातं प्रत्याख्यामीति तदेतद्विशेषेण अ
निकाध्य भिधित्सुराह-से सुहुमं वे'त्यादि, सेशब्दो मागधदेशीप्रसिद्धः अथशब्दार्थः, स चोपन्यासे, तद्यथा-सूक्ष्म
जीवस्वरूपं वा बादरं वा त्रसं वा स्थावरं वा' अत्र सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मः, तस्य कायेन व्यापादनासंभवात्, तदेतद्विशेषतोऽभिधित्सुराह-'बादरोऽपि स्थूरः, स चैकैको द्विधा-त्रसः स्थावरश्च, सूक्ष्मत्रसः कुन्थ्वादिः स्थावरो वनस्पत्यादिः, बादरस्त्रसो गवादिः स्थावरः पृथिव्यादिः, एतान, 'णेव सयं| पाणे अइवाएजत्ति प्राकृतशैल्या छान्दसत्वात्, 'तिङ तिङो भवन्तीति न्यायात् नैव स्वयं प्राणिनः अति-18 पातयामि, नैवान्यैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि, यावज्जीवमित्यादि पूर्ववत् । इह च 'सूक्ष्म वा बादरं वे'त्यादिनोपलक्षित 'एकग्रहणे तज्जातीयग्रहण'मिति चतुर्विधःप्राणातिपातो द्रष्टव्यः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतः षट्सु जीवनिकायेषु सूक्ष्मादिभेदभिन्नेषु, क्षेत्रतो लोके तिर्यग्लोकादिभेदभिन्ने, कालतोऽतीतादौ रात्र्यादौ वा, भावतो रागेण वा द्वेषेण वा, मांसा-1 दिरागशत्रुद्वेषाभ्यां तदुपपत्तेरिति । चतुर्भङ्गिका चात्र-दवओ णामेगे पाणाइवाए ण भावओ इत्यादिरूपा यथा दूमपुष्पिकायां तथा द्रष्टव्येति । व्रतप्रतिपत्तिं निगमयन्नाह-प्रथमे भदन्त ! महाव्रते 'उपस्थितोऽस्मि'उप-सा- ॥१४५॥
१ द्रव्यतो नामैकः प्राणातिपातो न भावतः.
Jain Education Intel
For Private & Personel Use Only
(Malinelibrary.org