SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ व्याख्या-यः पुनर्मूले जीवो बीजगतोऽन्यो वा स निर्वतयति यावत् प्रथमपत्रं तावदेक एवेति, अनापि भावार्थः पूर्ववदेव । कन्दादि यावद्वीजं शेषमन्ये प्रकुर्वन्ति, वनस्पतिजीवा एव, व्याख्याद्वयपक्षेऽप्येतद्विरोधि, एकतः समुच्छूनावस्थाया एव प्रथमपत्रतया विवक्षितत्वात्तद्नु कन्दादिभावतः अन्यत्र कन्दादेवनस्पतिभेदत्वात्तस्य च प्रथमपत्रोत्तरकालमेव भावादिति गाथार्थः ॥ अतिदेशमाह सेसं सुत्तप्फासं काए काए अहक्कम बूया । अज्झयणत्था पंच य पगरणपयवंजणविसुद्धा ॥ ६० ॥ भाष्यम् ।। | व्याख्या-शेषं सूत्रस्पर्श उक्तलक्षणं 'काये कायें पृथिव्यादौ 'यथाक्रम यथापरिपाटि ब्रूयात् अनुयोगधर एव, न केवलं सूत्रस्पर्शमेव, किंतु अध्ययनार्थान् पञ्च च-प्रागुपन्यस्तान् जीवाजीवाभिगमादीन् प्रकरणपदव्यञ्जनविशुद्धान् यात्, सूत्र एव जीवाभिगमः काये काये इत्यनेनैव लब्ध इति पञ्चग्रहणम्, अन्यथा षडिहार्थाधिकारा इति । प्रक्रियन्तेऽर्था अस्मिन्निति प्रकरणम्-अनेकार्थाधिकारवत्कायप्रकरणादि, पदं सुबन्तादि, कादीनि व्यञ्जनानि, एभिर्विशुद्धान ब्यादिति गाथार्थः ॥ इदानीं साधिकार एतदाह-से जे पुण इमें इति, सेशब्दोऽथशब्दार्थः, असावप्युपन्यासार्थः, 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेवि'ति वचनात्, अथ ये पुनरमी-बालादीनामपि प्रसिद्धा अनेके-द्वीन्द्रियादिभेदेन बहवः एकैकस्यां जाती त्रसाः प्राणिन:-त्रस्यन्तीति त्रसाः प्राणा-उच्छ्रासादय एषां विद्यन्त इति प्राणिनः, तद्यथा-अण्डजा इत्यादि, एष खलु षष्ठो जीवनिकायः त्रसकाय इति प्रोच्यत इति योगः, तत्राण्डाजाता अण्डजा:-पक्षिगृहकाकिना Jain Education Wix For Private & Personel Use Only Mr.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy