________________
रणानि च अनाचरितानि, आतुरशरणानि वा दोषातुराश्रयदानानि ३१, इति सूत्रार्थः ॥ ३ ॥ किंच – 'मूलए 'त्ति सूत्रम्, अस्य व्याख्या- 'मूलको' लोकप्रतीतः, 'शृङ्गवेरं च' आर्द्रकम् च तथा 'इक्षुखण्डं च' लोकप्रतीतम्, अनिर्वृतग्रहणं सर्वत्राभिसंबध्यते, अनिर्वृतम् - अपरिणतमनाचरितमिति, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते ३२-३३-३४, तथा 'कन्दो' वज्रकन्दादिः ३५, 'मूलं च' सहामूलादि, सचित्तमनाचरितम् ३६, तथा 'फल' त्रपुष्यादि ३७, 'बीजं च' तिलादि ३८, 'आमक' सचित्तमनाचरितमिति सूत्रार्थः ॥ ७ ॥ किंच -'सोवचले'त्ति सूत्रम्, अस्य व्याख्या - सौवर्चलं ३९, सैन्धवं ४०, 'लवणं च सांभरिलवणं ४१, रुमालवणं च ४२, आमकमिति सचित्तमनाचरितम्, सामुद्र-समुद्रलवणमेव ४३, 'पांशुक्षारच' ऊपरलवणं ४४, 'कृष्णलवणं च ' सैन्धवलवणपर्वतैकदेशजम् ४५, आमकमनाचरितमिति सूत्रार्थः ॥ ८ ॥ किं च - 'धूवणे'न्ति सूत्रम्, अस्य व्याख्या - धूपनमित्यात्मवस्त्रादेरनाचरितम्, प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपान - मित्यन्ये व्याचक्षते ४६, वमनं मदनफलादिना ४७, वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानं ४८, विरेचनं दन्त्यादिना ४९, तथा अञ्जनं रसाञ्जनादिना ५०, दन्तकाष्ठं च प्रतीतं ५१, तथा गात्राभ्यङ्गस्तैलादिना ५२, विभूषणं गात्राणामेव ५३, इति सूत्रार्थः ॥ ९ ॥ क्रियासूत्रमाह - 'सव्वमेयं ति सूत्रम्, अस्य व्याख्या - सर्व मेतद्-औद्देशिकादि यदनन्तरमुक्तमिदमनाचरितं केषामित्याह - निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः, त एव विशेष्यन्ते - संयमे, चशब्दात्तपसि युक्तानाम् - अभियुक्तानां 'लघुभूतविहारिणां लघुभूतो- वायुः, त
Jain Education International
For Private & Personal Use Only
%%%%%%%%%%%%%%%%
www.jainelibrary.org