SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ दशवैकro हारि-वृत्तिः ॥ ११५ ॥ पकेन उत्तेजिता-अधिकं दीपिता, केत्याह- मोह एव चारित्रमोहनीयकर्मोदयसमुत्थात्मपरिणामरूपः कुपितफुफुका-घटितकुकुला 'हसहसिंति'त्ति जाज्वल्यमाना जायत इति वाक्यशेषः, यां शृण्वतः कथां मोहोदयो जायत इत्यर्थः, श्रमणेन-साधुना न सा कथयितव्या, अकुशलभावनिबन्धनत्वादिति गाथार्थः । यत्प्रकारा कथनीया तत्प्रकारामाह-श्रमणेन कथयितव्या, किंविशिष्टेत्याह- 'तपोनियमकथा' अनशनादिपञ्चाश्रवविरमणादिरूपा, साऽपि विरागसंयुक्ता न निदानादिना रागादिसंगता, अत एवाह-यां कथां श्रुत्वा मनुष्यःश्रोता व्रजति-गच्छति 'संवेयणिग्वेद'ति संवेगं निर्वेदं चेति गाथार्थः । कथाकथनविधिमाह - महार्थापि कथा अपरिक्लेशबहुला कथयितव्या, नातिविस्तरकथनेन परिक्लेशः कार्य इत्यर्थः किमित्येवमित्यत आह- 'हंदी' त्युपदर्शने महता चडकरत्वेन - अतिप्रपञ्चकथनेनेत्यर्थः किमित्याह- अर्थ कथा हन्ति-भावार्थं नाशयतीति गाथार्थः । विधिशेषमाह- क्षेत्रं- भौतादिभावितं कालं-क्षीयमाणादिलक्षणं पुरुषं पारिणामिकादिरूपं सामर्थ्य चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योगः श्रमणेन त्वनवद्या- पापानुबन्धरहिता कथा कथयितव्या, नान्येति गाथार्थः । उक्ता कथा, तदभिधानाद्वतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्राला पकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम् — संजमे सुट्टप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइण्णं, निग्गंथाण महेसिणं Jain Education International For Private & Personal Use Only ३ क्षुल्लिकाचारकथा० कथादि स्वरूपं ॥ ११५ ॥ jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy