________________
Jain Education
मये कचिदोषदर्शनद्वारेण यथाऽस्माकमहिंसादिलक्षणो धर्मः साङ्ख्यादीनामप्येवं, 'हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति' इत्यादिवचनप्रामाण्यात्, किंत्वसावपरिणामिन्यात्मनि न युज्यते, एकान्तनित्यानित्ययोहिंसाया अभावादिति, अथवा परशासनव्याक्षेपात्- 'सुपां सुपो भवन्ति' इति सप्तम्यर्थे पञ्चमी, परशासनेन कथ्यमानेन व्याक्षेपे - सन्मार्गाभिमुखतायां सत्यां परस्य समयं कथयति, दोषदर्शनद्वारेण केवलमपीति गाथार्थः । उक्ता विक्षेपणी, अधुना संवेजनीमाह-आत्मपरशरीरविषया इहलोके चैव तथा परलोके - इहलोकविषया परलोकविषया च एषा चतुर्विधा खलु अनन्तरोक्तेन प्रकारेण कथा तु संवेजनी भवति, संवेज्यतेसंवेगं ग्राह्यतेऽनया श्रोतेति संवेजनी, एषोऽधिकृतगाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम्| संवेयणी कहा चउव्विहा, तंजहा- आयसरीरसंवेयणी परसरीरसंवेयणी इहलोयसंवेयणी परलोयसंवेयणी, तत्थ आयसरीरसंवेयणी जहा जमेयं अम्हचयं सरीरयं एवं सुकसोणिय मंस वसामेद मज्जद्विण्हारुचम्म केसरोमणहृदंत अंतादिसंघायणिष्फण्णत्तणेण मुत्तपुरीसभायण त्तणेण य असुइत्ति कहेमाणो सोयारस्स संवेगं उप्पाएइ, एसा आयसरीरसंवेयणी, एवं परसरीरसंवेयणीवि परसरीरं एरिसं चेव असुई, अहवा परस्स सरीरं
१ संवेजनी कथा चतुर्विधा, तद्यथा- आत्मशरीरसंवेजनी परशरीरसंवेजनी इहलोकसंवेजनी परलोकसंवेजनी, तत्रात्मशरीरसंवेजनी यथा यदेतदस्मदीयं शरीरकमेवं शुक्रशोणितमांसवसामेदोमज्जास्थिस्नायुचर्म केश रोमनखदन्तान्नादिसंघातनिष्पन्नत्वेन मूत्रपुरीषभाजनत्वेन चाशुचीति कथयन् श्रोतुः संवेगमुत्पादयति, एषाssत्मशरीरसंवेजनी, एवं परशरीरसंवेजन्यपि परशरीरमीष्टशमेवाशुचि, अथवा परस्य शरीरं
For Private & Personal Use Only
-
ww.jainelibrary.org