________________
दशवैका ० हारि-वृत्तिः
॥ ११० ॥
Jain Education In
%%
देवलोगो सुकुलुप्पत्ती य होइ संवेगो । नरगो तिरिक्खजोणी कुमाणुसत्तं च निव्वेओ ॥ २०३ ॥ वेणइयस्स [य] पढमया कहा उ अक्वणी कयव्वा । तो ससमयगहियत्थो कहिज्ज विक्खेवणी पच्छा ॥ २०४ ॥ अक्खेवणीअक्खित्ता जे जीवा ते लभन्ति संमत्तं । विक्खेवणीऍ भज्जं गाढतरागं च मिच्छत्तं ॥ २०५ ॥
धर्मविषया कथा धर्मकथा असौ बोद्धव्या चतुर्विधा धीरपुरुषप्रज्ञप्ता-तीर्थकरगणधरप्ररूपितेत्यर्थः, चातुर्विध्यमेवाह - आक्षेपणी विक्षेपणी संवेगश्चैव निर्वेद इति, 'सूचनात्सूत्र' मितिन्यायात् संवेजनी निवेदनी चैवेत्युपन्यासगाथाक्षरार्थः ॥ भावार्थं त्वाह-आचारो-लोचास्नानादिः व्यवहारः - कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः प्रज्ञप्तिश्चैव संशयापन्नस्य मधुरवचनैः प्रज्ञापना दृष्टिवादश्च श्रोत्रपेक्षया सूक्ष्मजीवादिभावकधनं, अन्ये त्वभिदधति-आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, एषा - अनन्तरोदिता चतुर्विधा खलुशब्दो विशेषणार्थः श्रोत्रपेक्षयाऽऽचारादिभेदानाश्रित्यानेकप्रकारेति कथा त्वाक्षेपणी भवति, तुरेवकारार्थः, कथैव प्रज्ञापकेनोच्यमाना नान्येन, आक्षिप्यन्ते मोहात्तत्त्वं प्रत्यनया भव्यप्राणिन इत्याक्षेपणी भवतीति गाथार्थः । इदानीमस्या रसमाह-विद्या- ज्ञानं अत्यन्तापकारिभावतमोभेदकं चरणं - चारित्रं | समग्रविरतिरूपं तपः - अनशनादि पुरुषकारश्च - कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः समितिगुप्तयः - पूर्वोक्ता एव एतदुपदिश्यते खलु श्रोतृभावापेक्षया सामीप्येन कथ्यते, एवं यत्र कचिदसावुपदेशः कथाया आक्षे पण्या रसो- निष्यन्दः सार इति गाथार्थः । गताऽऽक्षेपणी, विक्षेपणीमाह- कथयित्वा खसमयं - खसिद्धान्तं ततः
For Private & Personal Use Only
३ क्षुल्लिकाचारकथा०
आक्षेप
ण्याचा
धर्मकथाः
॥ ११० ॥
jainelibrary.org