SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ दतं चानुयोगद्वारप्रक्रमायातं प्रत्यध्ययनं यथासम्भवमोघनिष्पन्ने निक्षेपे लाघवार्थ वक्ष्याम इति ॥ ततश्च य दुक्तं-"दसकालिय सुअक्खंधं अज्झयणुद्देस णिक्खिविउं' अनुयोगोऽस्य कर्त्तव्य इति, तदंशतः सम्पा|दितमिति । साम्प्रतं प्रस्तुतशास्त्रसमुत्थवक्तव्यताभिधित्सयाह जेण व जं व पडुच्चा जत्तो जावंति जह य ते ठविया । सो तं च तओ ताणि य तहा य कमसो कहेयव्वं ॥ १३ ॥ __ व्याख्या-'येन वा' आचार्येण 'यद्वा' वस्तु 'प्रतीत्य' अङ्गीकृत्य 'यतो वा' आत्मप्रवादादिपूर्वतो 'यावन्ति वा' अध्ययनानि 'यथा च येन प्रकारेण 'तानि' अध्ययनानि 'स्थापितानि' न्यस्तानि, स च-आचार्यः तच्चवस्तु ततः-तस्मात्पूर्वात् तानि च-अध्ययनानि तथा च-तेनैव प्रकारेण 'क्रमशः' क्रमेणानुपूर्व्या 'कथयितव्यं प्रतिपादयितव्यमिति गाथासमासार्थः ॥ अवयवार्थ तु प्रतिद्वारं नियुक्तिकार एव यथाऽवसरं वक्ष्यति । तत्राधिकृतशास्त्रकाः स्तवद्वारेणाद्यद्वारावयवार्थप्रतिपादनायाह सेजंभवं गणधरं जिणपडिमादसणेण पडिबुद्धं । मणगपिअरं दसकालियस्स निजूहगं वंदे ॥ १४ ॥ दारं ॥ व्याख्या-'सेजंभव'मिति नाम 'गणधर मिति अनुत्तरज्ञानदर्शनादिधर्मगणं धारयतीति गणधरस्तं, 'जिनप्रतिमादर्शनेन प्रतिबुद्धं तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गादिजेतृत्वाजिनस्तस्य प्रतिमा-सद्भावस्थापनारूपा तस्या दर्शन मिति समासः, तेन-हेतुभूतेन, किम् ?–प्रतिबुद्धं मिथ्यात्वाज्ञाननिद्रापगमन सम्य Jain Education a l For Private Personel Use Only diarainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy