SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ङ्कते, सर्वशङ्का तु प्राकृतनिबद्धत्वात्सकलमेवेदं परिकल्पितं भविष्यतीति, न पुनरालोचयति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति, प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तश्च-"बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः॥१॥" दृष्टेष्टाविरुद्धश्चेति, उदाहरणं चात्र पेयापेयको यथाऽऽवश्यके, ततश्च निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्रा-18 धान्यविवक्षया दर्शनाचार उच्यते, अनेन दर्शनदर्शनिनोरभेदमाह, तदेकान्तभेदे त्वदर्शनिन इव तत्फलाभावात् मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्येति । तथा निष्कासितो-देशसर्वकाङ्क्षारहितः, तत्र देशकाङ्क्षा एकं दर्शनं काङ्गति दिगम्बरदर्शनादि, सर्वकासा तु सर्वाण्येवेति, नालोचयति षड़जीवनिकायपीडामसत्प्ररूपणांच, उदाहरणं चात्र राजामात्यौ यथाऽऽवश्यक इति २। विचिकित्सा-मतिविभ्रमः निर्गता विचिकित्सा-मतिविभ्रमो यतोऽसौ निर्विचिकित्सा, साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि सतो ममामात्फलं भविष्यति न भविष्यतीति?, क्रियायाः कृषीबलादिषूभयोपलब्धेरिति विकल्परहितः, न ह्यविकल्प उपाय उपेयवस्तुपरिप्रापको न भवतीति सञ्जातनिश्चयो निर्विचिकित्स उच्यते एतावताउंशेन निःशङ्किताद्भिन्ना, उदाहरणं चात्र विद्यासाधको यथाऽऽवश्यक इति, यद्वा निर्विजुगुप्सः-साधुजुगुप्सारहितः, उदाहरणं चात्र श्रावकदुहिता यथाऽऽवश्यक एव ३ तथाऽमूढदृष्टिश्च बालतपखितपोविद्याऽतिशयदर्शनैर्न मूढा-खरूपान्न च-18 Jain Education For Private & Personel Use Only naw.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy