________________
दशवैका० हारि-वृत्तिः ॥९९॥
रथनेम्यु
CROSSOCIEOCEROSCAMSANGA
कुर्वन्ति 'संवुडा बुद्धिमन्तो वुद्धाः सम्यग-दर्शनसाहचर्येण दर्शनैकीभावेन वा बुद्धाः संबुद्धा-विदितविषय- २ श्रामण्यखभावाः, सम्यग्दृष्टय इत्यर्थः, त एव विशेष्यन्ते-पण्डिताः प्रविचक्षणाः, तत्र पण्डिताः-सम्यग्ज्ञानवन्तः प्र-18 पूर्वकाध्य विचक्षणा:-चरणपरिणामवन्तः, अन्ये तु व्याचक्षते-संबुद्धाः सामान्येन बुद्धिमन्तः पण्डिता वान्तभोगासेवनदोषज्ञाः प्रविचक्षणा अवद्यभीरव इति, किं कुर्वन्ति?–'विनिवर्तन्ते भोगेभ्यः' विविधम्-अनेक प्रकारै- दाहरणरनादिभवाभ्यासबलेन कर्थ्यमाना अपि मोहोदयेन विनिवर्तन्ते भोगेभ्यो-विषयेभ्यः, यथा क इत्यत्राह-य-18 मनियतथाऽसौ 'पुरुषोत्तमः' रथनेमिः । आह-कथं तस्य पुरुषोत्तमत्वं, यो हि प्रव्रजितोऽपि विषयाभिलाषीति ?, उ-है त्वात् च्यते, अभिलाषेऽप्यप्रवृत्तः, कापुरुषस्त्वभिलाषानुरूपं चेष्टत एवेति । अपरस्त्वाह-दशवकालिकं नियतश्रुतमेव, यत उक्तम्-"णायज्झयणाहरणा इसिभासियमो पइन्नयसुया य। एए होंति अणियया णिययं पुण81 सेसमुस्सन्नं ॥१॥” तत्कथमभिनवोत्पन्नमिदमुदाहरणं युज्यते इति?, उच्यते, एवम्भूतार्थस्यैव नियतश्रुतेऽपि भावाद्, उत्सन्नग्रहणाचादोषः, प्रायो नियतं न तु सर्वथा नियतमेवेत्यर्थः। ब्रवीमीति न खमनीषिकया किन्तु तीर्थकरगणधरोपदेशेन । उक्तोऽनुगमो, नयाः पूर्ववदिति ॥ इत्याचार्यश्रीहरिभद्रसूरिविरचितायां दशवैकालिकटीकायां द्वितीयं श्रामण्यपूर्वकाध्ययनं सम्पूर्णम् ॥२॥
इति श्रीदशवैकालिके द्वितीयाध्ययनं सवृत्तिकं समाप्तम् ॥ १ दर्शनपरिणाम० प्र० २ ज्ञाताध्ययनाहरणानि ऋषिभाषितानि प्रकीर्णकश्रुतं च । एतानि भवन्ति अनियतानि नियतं पुनः शेषमुत्सन्नं (प्रायः) ॥१॥
ALGAOCACHECAC-500
For Private Personal Use Only
Sanjainelibrary.org
in Education