________________
+ S
पर्सनादिलक्षणो नावाच्यः, तथा यायुष्क भेदन
ANSAR
नसरो दीणो, विवरीओ विचित्तओ। दुब्बलो दुक्खिओ सुवइ, संपत्तो दसमि दसं ॥१०॥" इत्यलं विस्तरेणेति गाथार्थः ॥ इदानीं कालनिक्षेपप्रतिपादनायाह
दृब्वे अद्ध अहाउअ उवक्कमे देसकालकाले य । तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥ ११ ॥ व्याख्या-द्रव्य' इति वर्तनादिलक्षणो द्रव्यकालो वाच्यः, 'अद्धे'ति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः, तथा 'यथायुष्ककालो' देवाद्यायुष्कलक्षणो वाच्यः, तथा 'उपक्रमकाल' अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचार्यायुष्कभेदभिन्नो वाच्या, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनान्तरम्, ततश्चाभीष्टवस्त्ववास्यवसरः काल इत्यर्थः, तथा कालकालो वाच्यः, तत्रैकः कालशब्दः प्राग्निरूपितशब्दार्थ एव, द्वितीयस्तु सामयिकः, कालो मरणमुच्यते, मरणक्रियायाः कलनं काल इत्यर्थः, चः समुच्चये, तथा 'प्रमाणकाल' अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति, 'भावेत्ति औदयिकादिभावकालः सादिसपर्यवसानादिभेदभिन्नो वाच्य इति । प्रकृतं तु 'भावेनेति भावकालेन, इह पुनर्दिवसप्रमाणकालेनाधिकारः, तत्रापि तृतीयपौरुष्या, तत्रापि बहतिक्रान्तयेति । आह-यदुक्तं-पगयं तु भावेणंति' तत्कथं न विरुध्यते इति?, उच्यते, क्षायोपशमिकभावकाले शय्यम्भवेन नियूढं प्रमाणकाले चोक्तलक्षण इत्यविरोधः, अथवा प्रमाण
१ नखरो दीनो विपरीतो विचित्तकः । दुर्बलो दुःखितः खपिति संप्राप्तो दशमी दशाम् ॥ १० ॥
ForPrivate sPersonal use Only