________________
RISHISAIGAS405AASAASAASAASAEG*564
वादिनां 'नास्ति जीव एव' न विद्यते आत्मैव 'दानादिफलं तेषां न विद्यते' दानहोमयागतपःसमाध्यादिफलं-खर्गापवर्गादि तेषां-वादिनां न विद्यते-नास्तीत्यर्थः । कदाचित्त एवं श्रुत्वैवं ब्रूयुः-मा भवतु, का नो हानिः?, 'न ह्यभ्युपगमा एवं बाधायै भवन्तीति, ततश्च सत्त्ववैचित्र्यान्यथानुपपत्तितस्ते सम्प्रतिपत्तिमानेतव्याः, इत्यलं विस्तरेण, गमनिकामात्रमेतद, उदाहरणदेशता चरणकरणानुयोगानुसारेण भावनीयेति।गतं निश्राद्वार, तदन्वाख्यानाच तद्देशद्वारम् , अधुना तद्दोषद्वारावयवार्थप्रचिकटयिषयोपन्यासार्थ गाथावयवमाह
-'चउह तद्दोसं चतुर्धा तद्दोष-इति उदाहरणदोषः, अनुस्वारस्त्वलाक्षणिकः, अथवोदाहरणेनैव सामानाधिकरण्यं, ततश्च तद्दोषमिति तस्योदाहरणस्यैव दोषा यस्मिंस्तत्तदोषमिति गाथार्थः॥उपन्यस्तं चातुर्विध्यं प्रतिपादयन्नाह
पढमं अहम्मजुत्तं पडिलोमं अत्तणो उवन्नासं । दुरुवणियं तु चउत्थं अहम्मजुत्तमि नलदामो ॥ ८१ ॥ व्याख्या-'प्रथमम्' आद्यम् 'अधर्मयुक्तं पापसम्बद्धमित्यर्थः, तथा 'प्रतिलोम प्रतिकूलम्, 'आत्मन उपन्यास' इति आत्मन एवोपन्यासः-तथानिवेदनं यस्मिन्निति, 'दुरूपनीतं चेति दुष्टमुपनीतं-निगमितमस्मिनिति चतुर्थमिदं वर्त्तते, अमीषामेव यथोपन्यासमुदाहरणैर्भावार्थमुपदर्शयति-अधर्मयुक्त नलदामः कुविन्दः, लौकिकमुदाहरणमिति गाथाक्षरार्थः ॥ पर्यन्तावयवार्थः कथानकादवसेयः, तच्चेदम्-चाणक्केण गंदे उत्थाइए
१°णानुसारेण प्र. २ चाणक्येन नन्दे उत्थापिते
Jain Education
For Private
Personal Use Only
Mainelibrary.org