SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तं दृष्ट्वा धर्मदत्तोऽपि, चेतस्येवमचिन्तयत् । अहो अस्योपकारित्वमुदारत्वं च कीदृशम् ! ॥९॥ गाथा-उवयारइ उवयारडउ, सहूइ कोइ करेइ । विण उवयारइ जो करइ, विरला जणणि जणेइ॥११॥ नयप्रणयिनी लक्ष्मी, सत्त्वप्रणयिनी धृतिः । कुलीनानां भवत्येव, धर्मप्रणयिनी मतिः ॥ ९२ ॥ यतः-उद्योतयति कोऽपि जातः, कुलमन्यो निर्मलं कलङ्कयति । धवलयति कुमुदबन्धुर्गगनं ___ मलयति जीमूतः ॥ ९३ ॥ अथोचे धर्मदत्तस्तं, कुमारं प्रति सादरम् । तवोपकारिणः पार्श्वे, याञ्चां किञ्चित्करोम्यहम् ॥ ९४ ॥ मम वाक्यं त्वया व्यर्थं, न कर्तव्यं विचक्षण! । याचस्वेति कुमारण, प्रोक्ते धर्मोऽवदत्पुनः॥ ९५ ॥ चामीकरनरं मित्र!, गृहाण वचसा मम । कुमारेणोक्तं को हेतुर्यन्मे ददसि पूरुषम् ॥ ९६॥ तेनोक्तं नायमस्माकं, मन्दिरे घटते कदा । तेन देदीयते प्रत्युपकारोऽपि भवेत्पुनः ॥ ९७ ॥ आग्रहाद्धर्मदत्तस्य, प्रोवाच नृपनन्दनः। यावद्रोचेत तन्मानं, स्वर्णं गृहाण पूरुषात् ॥ ९८॥ द्वौ पादौ च करौ तस्य, च्छित्वा सोऽथ गृहीतवान् । शीर्षादि शेषमुत्पाव्य, राजपुत्रो गृहं ययौ ।। ९९ ॥ Jain Education Intello For Private Personel Use Only Thinelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy