________________
महा.
धर्म |
पृष्टं भूपेन हे वत्स !, तस्य लब्धः स पूरुषः! । लब्ध एव कुमारण, भाषिते हर्षितो नृपः॥ १० ॥ तेनाथ धर्मदत्तेन, षोडश द्रव्यकोटयः । तस्माचामीकरात् प्राप्ताः, पुरुषाङ्गप्रभावतः ॥ १॥ कस्मात्स्थानान्महान्तं स, सार्थ कृत्वा समागतः । गृहे वर्धापको प्रैषि, भार्यातस्य च हर्षिता ॥२॥ सर्वोऽपि स्वजनस्तस्य, तदा सन्मुख आगतः । महोत्सवेन धर्मोऽसौ, प्रविवेश निजं गृहम् ॥३॥ भार्याद्धययुतो धर्मदत्तो भोगान् बुभोज सः। पूर्वाश्रिताश्च ये लोकास्तमाद्यं ते सिषेविरे ॥४॥
काव्यम-त्यजन्ति मित्राणि धनविहीनं, पुत्राश्च दाराश्च सहोदराश्च।
तमर्थवन्तं पुनराश्रयन्ति, अर्थो हि लोके पुरुषस्य बन्धुः ॥५॥ कियत्यपि गते काले, यशोधवलभूपतिः । वैराग्यरसपीयूषपानं कर्तुं समुद्यतः॥६॥ श्रीचन्द्रयशसं पुत्रं, विन्यस्य राज्यसंपदि । सुमित्रसूरिपार्चे स, व्रतं जग्राह शुद्धधीः ॥७॥ पठित्वा शुद्धसिद्धान्तं, चिरं चारित्रमुज्ज्वलम् । प्रपाल्य खड्गधाराभं, स राजर्षिः शिवं ययौ ॥८॥ तस्य श्रीचन्द्रयशसो, राज्यप्राप्तस्य भूतले । नवीनं चन्द्रधवल, इति नाम प्रकीर्तितम् ॥ ९॥
॥५०॥
Jain Education H
o na
For Private Personel Use Only
S
w.jainelibrary.org