________________
सुवर्णपुरुषस्याथ, पूज्यमानस्य युक्तिभिः । हस्ताः पादा अपि च्छिन्ना, आविर्बभूवुरन्वहम् ॥ ११० ॥ अक्षयस्तेन हेम्नाऽस्य, जातः कोशः स्वपुण्यतः । स पृथ्वीमनृणा कृत्वा, प्रावर्तयत्स्ववत्सरम् ॥ ११ ॥ अन्यदा धर्म्मदत्तःस, स्मृतिं राज्ञः समागतः । मन्त्रिणं प्रेष्य चाकार्य, बहुमानमदान्नृपः ॥ १२ ॥ राजोचे तव दत्तेन, सुवर्णपुरुषेण भोः ! । अनृणीकारकीर्तिमें, जाताऽतस्त्वं महासखा ॥ १३ ॥ मुख्यश्रेष्ठिपदं दत्तं मध्येऽस्य व्यवहारिणाम् । धर्म्मः सुखासनासीनो, यात्यायाति निजे गृहे ॥ १४ ॥ नरेन्द्रधर्मदत्तौ तौ धर्मकार्याण्यनेकशः । चक्रतुः स्नेहवार्ताञ्च नित्यं विदधतुर्मिथः ॥ १५ ॥ एकदा तेन भूपेन, प्रीत्या पृष्टः स श्रेष्ठिराट् । कियन्मात्रं धनं तेऽस्ति ?, तेनोचे शृणु कौतुकम् ॥ १६ ॥ तस्मिन्नवसरे स्वामिन्!, सुवर्णपुरुषाङ्गतः । सङ्घयया मे सुवर्णस्य, जाताः षोडश कोटयः ॥ १७ ॥ जलस्थलादिमार्गेषु, व्यवसायं प्रकुर्वतः । लेख्यते मम ता एव, सन्ति षोडश कोटयः ॥ १८ ॥ न विशेषः कदा कश्चिद्व्यवसायश्च दृश्यते । तेन कर्तुं न शक्नोमि, व्ययञ्च सविशेषकम् ॥ १९ ॥ अतः कारणतो देव!, कोऽपि ज्ञान्येव पृच्छ्यते । येन मे ज्ञायते कर्म्मविपाकः कथमीदृशः ? ॥ १२० ॥
Jain Educationtional
14
For Private & Personal Use Only
www.jainelibrary.org