SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ p ॥५१॥ Jain Education राज्ञोचे मित्र ! ते लक्ष्म्या, इयान्लोभः कथं हृदि ? । भाग्येनैव भवेत्पद्मा, भाग्यं सर्वत्र वन्द्यते ॥ २१ ॥ यथान्यदा भाग्यलक्ष्म्योर्द्वयोर्मिलितयोर्मिथः । सञ्जतःक्वापि संवादः, आत्मात्मैक प्रशंसने ॥ २२ ॥ अप्येको नो विरमते (ति), सुरैरिन्द्रादिकैस्तदा । एतयोः कथितं स्वस्वान्, गुणान् दर्शयतां युवाम् ॥ २३ ॥ अथैकं दुर्गतं दीनं, कुशं संवीक्ष्य मानवम् । सुवर्णस्येष्टिकां तस्य, दत्वा च कमलाऽवदत् ॥ २४ ॥ रे त्वं याहि गृहे स्वर्ण, विक्रीयाभरणादिभिः । भूषितः पुनरागच्छामीषां दर्शय मद्गुणान् ॥ २५ ॥ ओमित्युक्त्वा गतो गेहे, गोपिता चेष्टिका कचित् । तां प्रातिवेश्मिकी दृष्ट्वा, गृहीत्वा च गता गृहे ॥ २६ ॥ तथावस्थं ततो निःस्वं दृष्ट्वा द्वितीयवासरे । रत्नमेकं पुनर्लक्ष्म्या, तस्मै सत्कृपयाऽर्पितम् ॥ २७ ॥ शिक्षां चापि तथा दत्वा, वालितोऽसौ गृहं प्रति । रत्नं मुक्त्वा नदीतीरे, स्नानार्थं स जलेविशत् ॥ २८ ॥ मत्स्येनागत्य तद्वलं, गिलितं च ययौ जले । तृतीयेऽपि दिने तादृक् स नरो ददृशे श्रिया ॥ २९ ॥ भाग्येनाथ रमा प्रोक्ता, त्वयाऽसौ न धनीकृतः । वीक्ष्याहं शुभदृष्टिभ्यां करोम्यद्यास्य सुन्दरम् ॥१३०॥ | यतः- भाग्यं फलति सर्वत्र, न विद्या नच पौरुषम् । श्रीकण्ठकण्ठलग्नस्य, वासुकेर्वायुवल्भनम् ॥ ३१ ॥ For Private & Personal Use Only महा. ॥५१॥ ww.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy