________________
भाग्यनाथ स्वहस्तेन, तद्भाले तिलकं कृतम् । उक्तं याहि गृहे जल्पन्, भाग्यं स्फुरति मेऽद्य वै ॥३२॥ तस्मिन्गेहे गतेऽथागात, प्राघूर्णकोऽस्य शालकः । तदर्थे हीनजातित्वान्मत्स्य आनीय दारितः ॥ ३३॥ तन्मध्यान्निसृतं रत्नं, दृष्ट्वा सोऽवक प्रियां प्रति । लब्धं पूर्वगतं रत्नमिष्टिकाऽथ विलोक्यते॥ ३४॥ एवं प्रोचे पुनर्यावत्तावद्भित्त्यन्तरे स्थिता । तत्मातिवेइमकी श्रुत्वा, ददौ तां कनकेष्टिकाम् ॥ ३५॥ कालगित्वा पादयोश्चैवं. वदति स्म पुनः पुनः। क्षन्तव्यो मेऽपराधोऽयं वाच्यं कस्याग्रतोऽपि न ॥३६॥
ओमित्युक्ता जहर्षासौ, रत्नस्वर्णेष्टकाधनात् । आढ्यो बभूव भाग्येन, दरिद्रं सकलं गतम् ॥ ३७॥ अन्येद्युःसेवकैर्युक्तो, वस्त्राभरणभूषितः । अश्वारूढो जगामासौ, कमलाभाग्यसंन्निधौ ॥ ३८ ॥ भाग्यपादे पतित्वा च, तद्गुणान् वर्णयन्नथ । देवानां पुरतो लक्ष्मी, निर्भसयन्नुवाच सः ॥ ३९ ॥ भाग्यप्रभावतो राज्यं, भाग्याच्च प्रचुरं धनम् । अतो भाग्यं वरं ज्ञेयं, तद्विना श्रीः करोति किम्?॥१४॥
___ इति भाग्योपरि कथा समाप्ता। अतो ब्रवीमि हे मित्र!, धर्मदत्त रमाक्षयः । भाग्ये सति भवेन्नैव, ततः कार्यों धनव्ययः ॥ ४१ ॥
Jain Education in
For Private & Personel Use Only
ONainelibrary.org