________________
-29.44600
महा.
धर्म | इत्यं मिथो रागवन्तौ, चक्रतुः सुकृतानि तौ । अन्येधुर्वनपालेन, विज्ञप्तोऽसौ धराधिपः ॥ ४२॥ ॥५२॥ स्वामिन! श्रीधर्मधवलनामानः सूरयो वने । समाजग्मुः परिवृताः, साधुभिः पञ्चभिः शतैः ॥ १३ ॥
श्रुत्वैवं हर्षितो भूपश्चतुरङ्गचमूवृतः। महोत्सवेन सद्भक्त्या, गुरून्नन्तुं ययौ वने ॥४४॥ धर्मदत्तोऽपि सोत्साहः, पत्नीद्वितयसंयुतः । मनःसंशयभङ्गार्थ, जगाम गुरुवन्दने ॥ ४५॥ निजभालेऽञ्जलिं कृत्वा, वन्दित्वा तं गुरुं वरम् । उपविष्टौ यथास्थानं, नरेन्द्रधर्मदत्तकौ ॥ ४६॥ तेषां भविकजीवानां, पुरतस्तेन सूरिणा। भवदाहसुधातुल्या, प्रारब्धा धर्मदेशना ॥ १७ ॥ भो भव्या ! भूरिभाग्येन, भविनां नृभवो भवेत् । तदमुं प्राप्य संसारं, त्यक्त्वाऽऽश्रयत निर्वृतिम्॥४८॥ संसारः परमं दुःखं, मोक्षञ्च(श्च) परमं सुखम् । इति तत्त्वं परिज्ञाय, भाव्यं मोक्षाय तत्परैः॥ १९ ॥ भवा जन्तोरनन्ताःस्युभवः शस्यते परम् । यदय॑न्तेऽमुना स्वर्गापवर्गाद्याः सुखश्रियः ॥१५० ॥ ॥२॥ यतः-विषयविरतिः सङ्गत्यागः कषायविनिग्रहः, शमदमदयास्तत्वाभ्यासस्तपश्चरणोद्यमः । नियमितमनोवृत्तिभक्तिर्जिनेषु सुशीलता, भवति कृतिनः संसाराब्धेस्तटे निकटे सति ॥५१॥
Jain Education intola
For Private Personal Use Only
M
ainelibrary.org