SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ तथापि राजपुत्रस्य, क्षुभितं न मनो मनाक् । एवं तस्य दिनाः सप्त,सञ्जाताः सत्त्वशालिनः ॥६९॥ सप्तोपवासैः प्रत्यक्षीभूय यक्षो जगाद सः । याचसे किं महाधीर!, स ऊचे शृणु यक्षराट् ! ॥ ७० ॥ धर्मदत्तस्य या पली, तामानीय ममाप्य । यक्षेणोक्तमसाध्यं मे, यतः सा मत्प्रियावशा ॥ ७१ ॥ न शक्यते मया दातुं, श्रुत्वैवं नृपजोऽब्रवीत् । सुन्दरी सा त्वया यक्ष!, क प्राप्ता कथय प्रभो!॥७२॥ यक्षो जगाद हे भद्र !, कदाऽहं प्रियया युतः । रात्रौ कापि वने प्राप्तो, दृष्टा सा दिव्यधारिणी ॥७३॥ यक्षिण्या मे तदा प्रोक्तं, स्वामिन् ! दिव्यैकरूपिणी । मानवी दृश्यते सुप्ताऽपहृत्यैनां ममाप्य ॥७४ ॥ भर्तृपात्तितो हृत्वा, प्रियायै सा मयाऽपिता । तां दातुं नैव शक्तोऽहमित्युक्त्वाऽसौ तिरोदधौ॥७५॥ कुमारेण तदाऽचिन्ति, धिम् देवान् येऽबलावशाः। किङ्करा इव दृश्यन्ते, मानवास्तर्हि किं पुनः? ॥७६॥ गाथा-हरिहरचउराणणचन्दसूरखन्धाइणोऽवि जे देवा । नारीण किङ्करतं, करन्ति घिद्धी विसय तिण्हा ॥ ७७ ॥ यक्षिणी तामथोद्दिश्य, कुर्वेऽत्राहं पुनस्तपः। यथा मे कार्यसिद्धिः स्यात्तपो हि विषमार्थकृत् ॥ ७८ ॥ १०००००००००००००००००००००००००००००००००० Jain Education Inter For Private Personel Use Only Olainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy