SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 官 ॥४८॥ Jain Educat अयाचि भूपादिष्टेन, प्रसादस्तेन मानिना । दीपा न कार्याः केनापि, महर्जं दीपवासरे ॥ ५९ ॥ तथेति राज्ञाऽनुज्ञातो, रोरो दीपमहे निशि । निजोटजाभितो दीप्रान्, भूरिदीपानचीकरत् ॥ ६० ॥ तस्यां निशायां कमला, बभ्राम सकलां पुरीम् । क्वापि दीपमपश्यन्ती, समेता तस्य सद्मनि ॥ ६१ ॥ उद्यम्य लकुटं सोऽथ, कमलामनु धावितः । दरिद्रे स्वामिनि सति त्वं कुतोऽत्रैषि चञ्चले ! ॥ ६२ ॥ इति भक्त्या तया हृष्टो, दरिद्रोऽपि हसन् जगौ । त्वयि तुष्टो महारोर ! वरं ब्रूहि विशारद ॥ ६३ ॥ | शब्दच्छलज्ञः स प्राह, यदि तुष्टोऽसि तत्कदा । मदीयेन त्वया भाव्यं किं समीहेऽपरं त्वयि ॥ ६४ ॥ छलितेऽस्मिन्न वागूचे, निर्गते निजमन्दिरात्। सोऽपि पद्मां समाहूय, पूजयित्वा नतिं व्यधात् ॥६५॥ मातर्दरिद्रे मध्यस्थे, न योग्यः स्यात्तवागमः । कल्पवल्ली करीरेण किं योजयितुमर्हति ? ॥ ६६ ॥ प्रातः प्रजेशप्रत्यक्षं प्रीता पद्मा प्रमोदतः । भूमिखण्डस्य कस्यापि, राज्यमस्मै वितीर्णवान् ॥ ६७ ॥ ॥४८॥ इति एकाग्रचित्तविषये राजपालकथा समाप्ता अथास्यैकाग्रचित्तस्य, दृढासनस्थितस्य च । रूपाणि सर्पसिंहानां दर्शितानि सुरैर्निशि ॥ ६८ ॥ mational For Private & Personal Use Only मद्दा. www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy