________________
3
५१ ॥
कदा तत्रैव मुक्त्वा तं दरिद्रं स च धीधनः । जगाम योजनशतं, दरिद्रदरकातरः ॥ ४९ ॥ तत्र चन्द्रापुरीमध्यं प्रविशन् शून्यसद्मनि । स तं दरिद्रमद्राक्षीत् संभ्रमोत्कर्षभासुरः ॥ ५० ॥ अहो सकलदेवस्य प्रसादो मयि कीदृश: ? । यद्योजनशतं मुक्तो, मत्पृष्ठिं न मुमोच यः ॥ प्राञ्जलिर्गद्गदगिरा, तुष्टाव गुणरञ्जितः । हरिशङ्करप्रमुखास्त्वत्पुरः के सुरोत्तमाः ? ॥ ५२ ॥ यतः - हे दारिद्र ! नमस्तुभ्यं, सिद्धोऽहं त्वत्प्रसादतः । अहं सर्वत्र पश्यामि माञ्च कोऽपि न पश्यति ॥ ५३ ॥ इति स्तौति प्रतिदिनं, पूजमानोऽथ भक्तिमान् । सेवते दैवतमिव तं दरिद्रं स दुर्गतः ॥ ५४ ॥ इतश्च चन्द्राधिपतेः, पट्टहस्ती विशृङ्खलः । पातयन्पुरसौधानि, मर्द्दयन्मनुजांस्तथा ॥ ५५ ॥ नामयन् वासराधीशं, मोहयन्मनुजेश्वरम् । आलानस्तम्भमुन्मूल्य, विचचार महोद्धरः (मदोद्धतः) ५६ तं वीक्ष्य विवशं राजाऽघोषयन् डिण्डिमं पुरे । वशीकरोति करिणं, तस्याहं वाञ्छितं ददे ॥ ५७ ॥ श्रुत्वा दरिद्रभक्तेन तेन गीतकलाविदा । मन्द्रमध्यतारभेदैः, क्षणान्नागो वशीकृतः ॥ ५८ ॥
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org