________________
धर्म.
॥४७॥
युग्मम्
एकचित्तेन सिद्धिः स्यात्, द्विवाचित्तो विनश्यति । चित्ते सुदृढता यस्य, तस्य किं नहि सिध्यति ? ३९ * एति प्रसन्नतां सर्वमेकचित्तेन सेवितम् । दरिद्रभक्त्या किं नाभूत्, राजपालो रमास्पदम् ? ॥ ४० ॥ क्षत्रियो देवदत्ताख्यः, पुरेऽभूत् रथमर्द्दने । तस्य दैववशाज्जज्ञे, राजपालाभिधः सुतः ॥ ४१ ॥ तस्मिन् षाण्मासिके जाते, परलोकं गतः पिता । माताऽपि पञ्चवर्षीये, मरणं शरणं ययौ ॥ ४२ ॥ विषपुञ्जानभं मत्वा तं बालं स्वजनाः परे । सर्प्पवत्तत्यजुर्दूरमशरण्यं दयोज्झिताः ॥ ४३ ॥ सोऽपि स्वकर्मणा वृद्धिं पुपोष गिरिवृक्षवत् । प्रपन्नो यौवनावस्थां दध्यावित्यर्थवर्जितः ॥ ४४ ॥ यौवनं सफलं भोगैः, भोगाः स्युः सफला धनैः । तद्विना मानुषं जन्म, जायते वनपुष्पवत् ॥ ४५ ॥ ततो देवानसौ नित्यं, नुनाव धनलोलुपः । न कोऽपि द्रव्यदानार्थमलंभूष्णुरभृत्सुरः ॥ ४६ ॥ ततो जातविषादोऽसौ, तान् देवान् पूर्वयाचितान् । सावज्ञं तृणवत्कोपात् विचिक्राय चतुष्पथे ॥४७॥ परं दरिद्ररूपं स मृन्मयं सपरश्वधम् । निर्माय निजगेहान्तः, पूजयामास सादरम् ॥ ४८ ॥
Jain Educatinational
For Private & Personal Use Only
महा.
॥४७॥
www.jainelibrary.org