________________
स पृष्टो राजपुत्रेण, त्वयाऽहो मित्र ! साम्प्रतम्। सुप्तेनेह श्रुतं किञ्चिद्धर्मदत्तस्ततोऽवदत् ॥ २८ ॥ शृगालव्यालशार्दूलोलूकशूकरखड्गिनाम् । पिशाचप्रेतभूतानां, श्रुताः शब्दाः मया घनाः ॥ २९ ॥ ततः स्मित्वा कुमारेण, नृत्यवार्ता प्रकीर्तिता । दिव्यरूपधरा चैका, प्रोक्ताभिज्ञानसंयुता ॥३०॥ तच्छ्रुत्वा धर्मदत्तस्तं, प्रत्यूचे सा मम प्रिया । घटते गम्यते तत्र, द्रुतं सा च विलोक्यते ॥ ३१॥ ततः स्थानाद्गतौ यावत्तौ द्वौ यक्षस्य वेश्मनि । न दृष्टं नर्त्तनं तावन्न दृष्टा सा च सुन्दरी ॥ ३२ ॥ हस्तौ प्रघर्षयन्धर्मदत्तः पप्रच्छ साबला । कियन्माना च कीदृक्षवर्णा च कतिवार्षिका ? ॥ ३३ ॥ स्वरूपं सकलं तस्याः, कथितं भूपसूनुना । धर्मदत्तोऽवदत्स्वर्णनरेणालं वयस्य ! मे ॥ ३४ ॥ हे भ्रातर्मम पत्नी तां, केनोपायेन वालय । तर्हि मे जीवितं दत्तं, प्राप्तं सर्वस्वमेव च ॥ ३५॥ प्रभातसमये जाते, द्वारमुद्भाटितं तदा । यक्षाग्रे च कुमारण, प्रारब्यमिति वर्चसम् ॥ ३६ ॥ कृतानाम्बुपरित्यागो, रागरङ्गविवर्जितः । निस्स्पृहो निरहङ्कारः, कुमारोऽसौ यतीन्द्रवत् ॥ ३७ ॥ एकाग्रं मानसं कृत्वा, धर्मदत्तकृते ततः । निविष्टो निश्चलो भूत्वा, दर्भसंस्तारके कृती ॥ ३८॥
Jain Educa
t ional
For Private Personal use only
O
ww.jainelibrary.org