________________
॥४६॥
धर्म. सविस्मयास्तदा लोकाश्चिन्तयन्ति स्म चेतसा(सि)। अहो कथं कुमारोऽसौ, वालयिष्यति पूरुषम्?॥१७॥ महा.
अथ राजसभामध्यात्, धर्मदत्तनृपाङ्गजौ । चलितौ द्वावपि क्षिप्रं, तत्कार्यकरणेच्छया ॥१८॥ वने गत्वा विलम्बार्थमित्युक्तं राजसूनुना ! देवेन दानवेनाथ, खेचरेण नरेण वा ॥ १९ ॥ येन केन हृतो यावत्, ज्ञायते न हि पूरुषः। तावन्महोद्यमेनापि, कार्यसिद्धिर्भवेन्न हि ॥ २० ॥ अतो रात्रौ वने तत्र, स्थीयते च्छन्नवृत्तितः। यथा ज्ञात्वा स्वरूपं तत्, क्रियते कार्यसाधनम् ॥ २१ ॥ एवञ्च तत् विमृश्य द्वौ, स्मशाने शर्वरीमुखे । निविष्टौ धाष्टर्यमालम्ब्य; निशाचरभयेऽपिच ॥ २२ ॥ धर्मदत्तः सनिद्रोऽभूत, जागर्ति क्षितिपाङ्गजः। दूरे तेन तदा दिव्यवाद्यगानरवः श्रुतः ॥ २३ ॥ मुक्त्वा सुप्तं धर्मदत्तमभिज्ञानं पदे पदे । कुर्वन्शब्दानुसारेण, ययौ तत्र स कौतुकी ॥ २४ ॥ ददर्शाग्रे च यक्षस्य, भवनं स्वर्गवि(स्वर्वि)मानवत् । मध्येऽद्राक्षीत्ततो दत्तकपाटविवरेण सः ॥ २५ ॥ अष्टोत्तरशतं तत्र, नृत्यन्ति सुरकन्यकाः । तासां मध्ये ददशैंका, नारी सोऽधिकरूपिणीम् ॥ २६ ॥ मुर्त्त कौतुकं वीक्ष्य, व्यावृत्तोऽसौ कुमारकः । आगतो धर्मदत्तस्य, समीपे सोऽप्यजागरीत् ॥ २७॥
Jain Educati
o
n
For Private & Personel Use Only
Shaw.jainelibrary.org