________________
00000000000000000000000000000006
श्रुत्वैवं धर्मदत्तोऽवक्, स्वर्णमस्तु धनं तव । युष्मद्धेम्ना न मे कार्य, वाल्यते हेमपूरुषः॥ ७॥ इत्युक्तपि समर्थस्त्वं, यदि मद्वस्तुवालने। करिष्यसि प्रसादं न, तदभाग्यं ममास्ति वै ॥ ८॥ । निर्वृतिमें तदैव स्यात्, यदा प्राप्नोमि मद्धनम् । त्वत्सुवर्णं न गृह्णामि, सद्भिानो न मुच्यते ॥ ९॥ म यतः-बाप्पीडउ जल तं पीयइ, जंघण तुठ्ठउ देइमाणविवजउ धरपडई, मरइ न चञ्चू भरेई ॥१०॥ एक एव खगो मानी, सुखं जीवाते चातकः । पिपासितो वा म्रियते, याचते वा पुरन्दरम् ॥ ११ ॥ काव्यम्-कूपे पानमधोमुखं भवति मे नद्यो वराका स्त्रियः,सामान्यं बकटिटिभैरसरश्चैवं समालोच्य तत्।। नादत्ते तृषितोऽपि नीचसलिलं क्रूरैर्वृतं जन्तुभिः, मानादुन्नतकन्धरोऽमरपति तद्याचते चातकः ॥ १२ ॥ अतः स्वामिस्त्वया नैव, वाच्यं मे हेमसङ्गहे । इति तन्निश्चयं ज्ञात्वा, राजा चित्ते व्यचिन्तयत्॥ १३॥ चेन्ममाप्याश्रितस्यास्य, कार्य सिद्धिं न यास्यति । तदाऽहं किं मुखं स्वीयं, दर्शयिष्यामि भूतले?॥१४॥ ध्यात्वैवं बीटकं हस्ते, गृहीत्वैवमभाषत । मत्सभायां स कोऽप्यस्ति, यो वालयति पूरुषम् ॥ १५ ॥ ततो राजसुतश्चन्द्रयशा बीटकमग्रहीत् । भूपं नत्वाऽवदच्चेति, वालयिष्यामि पूरुषम् ॥ १६ ॥
कककककक०0000000000000000000000000000
Jain Education
a
l
For Private & Personel Use Only
RAN.jainelibrary.org
HOR