________________
॥४५॥
धर्म नीतौ रामनिभो युधिष्ठिरसमः सत्ये श्रियाश्रीपतिः स्वीये सत्यपि पक्षपातसुभगः स्वामी यथार्थो भवेत्५५/ महा. इति श्रीवीरदेशनायां श्रीधर्मकल्पद्रुमे मुख्यचतुःशाखिके प्रथमदानशाखायां धर्मदत्तकथासंयुते
श्रीचन्द्रयशानृपाख्याने द्वितीयः पल्लवः समाप्तः ॥२॥५५॥
इन्दुःप्रीणकतां प्रतापमरुणो गाम्भीर्यमम्भोनिधिस्तुगत्वं कनकाचलो हिमगिरिःशैत्यं स्वतेजोऽनला। ऐश्वर्यं धनदः शमञ्च ऋषयः सर्वसहत्वं धरा, सर्वे माङ्गलिक व्यधुर्निजनिजं यस्मै स जीयानृपः ॥१॥ इत्याशिषं ददद्धर्मदत्तोऽथ नृपति प्रति । पुनरूचे मम स्वामिन् ! दीयते किञ्चिदुत्तरम् ॥ २॥ राजोचे भो महाभागोपायः कोऽपि न दृश्यते । न जानीमो वयं केन, गृहीतः कानको नरः ? ॥३॥ ततः किमुत्तरं दद्मः १ परं मे वचनं शृणु । लक्षं स्वर्णस्य कोटिं वा, याचस्व त्वं निजेच्छया ॥ ४॥ यथा तद्दाप्यते कोशात्सन्तोषस्तव जायते । ममापि न भवेत्पश्चादपकीर्तिः कदाऽप्यहो ॥५॥ पश्चादपि कदा कुत्र, ज्ञास्यामि स्वर्णपूरुषम् । तुभ्यमेवापयिष्यामि, करिष्ये स्वस्थतां तव ॥६॥
कककरू00440604.00000000000
॥४॥
Jain Education
For Private & Personel Use Only
w.jainelibrary.org