SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ॥४४॥ काव्यम्-सङ्ग्रामसागरकरीन्द्रभुजङ्गसिंहदुर्व्याधिवहिरिपुबन्धनसंभवानि । चौरग्रहभ्रमनिशाचरशाकिनीनां, नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥ ३७॥ ॐ नमो अरिहन्ताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सर्वसिद्धाणं, ममाङ्गे वज्रपञ्जरम् ॥ ३८॥ इत्थं परममन्त्रेण, स्वाङ्गरक्षां चकार सः । सन्जीकृत्य ततः खड्गं, सावधानतया स्थितः ॥ ३९॥ यावदष्टोत्तरशता, हुतयः पूर्णतां गताः । वक्रीभूय तदालोक्य, योगी खङ्गं करे दधौ ॥ ८१० ॥ तदृष्ट्वा धर्मदत्तेन, हतो योगी स लाघवात् । कुण्डमध्ये ततः क्षिप्तः, सिक्तः शीतोष्णवारिणा ॥४॥ योगी स्वर्णनरश्चाभूत , धर्मदत्तस्ततः क्षणम् । गतो मठे जलं पीत्वा, पुनस्तत्र समागतः॥४२॥ तावत्स्वर्णनरस्तत्र, न दृष्टो मच्छितोऽपतत् । स शीतपवनैर्लब्धचैतन्यश्चेत्यचिन्तयत् ॥ ४३ ॥ अहो मया हतो योगी, किञ्चित्प्राप्तं फलं नच । पृथुकोऽगात्करे दग्धो, भ्रष्टो घुभयतोऽप्यहम् ॥ ४४॥ चण्डालपाटके पातो, भिक्षापि चटिता नहि । अरे दैव ! त्वया चाहमेक एवोपलक्षितः ॥ ४५ ॥ मत्पृष्ठे त्वं जलं पीत्वा, स्थित एव विभाव्यते । दुःखस्योपरि यद्दःखं, पात्यते मेऽग्रतोऽग्रतः॥४६॥ ॥४४॥ | Jain Education | a liosa For Private & Personel Use Only Onaw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy