SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Jain Educatio गत्वा द्वाभ्यां ततस्तत्रानीतं कुण्डाज्जलद्वयम् | कारितश्च ततो रक्ताअनिकाकाष्ठजो नरः ॥ २६ ॥ नीत्वा होमस्य सामग्री, श्मशाने निशि योग्यसौ । गतः कृष्णचतुर्दश्यां कुण्डे वह्निः कृतस्ततः॥२७॥ विमुक्तः कुण्डकण्ठे स, रक्तचन्दनपुत्तलः । रक्षामिषेण तत्पार्श्वे, खड्गो मुक्तश्च योगिना ॥ २८ ॥ कुमारं प्रति (कुमारःप्रतियोग्यूचे) योग्यूचे, किमस्ति तव सन्निधौ । आयुधं लोहरक्षार्थी ? धर्म्मदत्तस्ततोऽब्रवीत् येनासिना मया पूर्व, पापिष्ठो राक्षसो हतः । पार्श्वे गुप्तोऽस्ति खड्गोऽसौ योगिनोक्तं न ते भयम् ॥ ८३०॥ पराङ्मुखं धर्म्मदत्तं, संस्थाप्य तस्य पृष्ठके । मुक्त्वा च पुत्तलं योगी, कुण्डकण्ठ उपाविशत् ॥ ३१ ॥ सर्षपानक्षिपन्मन्त्रपूर्वकं काष्ठजे नरे । धर्म्मदत्तं चापि पृष्ठेऽताडयत्सर्षपाक्षतैः ॥ ३२ ॥ चिन्तितं धर्मदत्तेनैतत्कपटं (यन् ) ममोपरि । दुष्टेन योगिना तस्मात् ( नूनं) प्रारब्धं कूटनाटकम् ॥ ३३॥ अधुना कोऽस्ति मे मित्रं, व्यसने पतिते सति । यः करिष्यति में रक्षां किं कर्त्तव्यं मया ततः ॥ ३४ ॥ येन दत्तोऽस्ति (ऽस्मि ) धर्मेण तस्य धर्मस्य चिन्तनम् । धर्मदत्तः करोति स्म, परमेष्ठिस्मृतिं तथा ॥ ३५॥ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ॥ ३६ ॥ ational For Private & Personal Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy