________________
महा.
܀ ܀ ܀ ܙܐܸ، ܐܼ، ܀ ܀ 4 ¢ܐ
धर्म. योग्यूचे शृणु भो भद्र ! सद्रक्ताञ्जनिकामयम् । पुत्तलं कारयिष्यामि, सप्तहस्तप्रमाणकम् ॥ १६ ॥ ॥४३॥ मन्त्रेण पुत्तलं माषसर्षपक्षेपपूर्वकम् । अभिमन्त्र्याग्निकुण्डञ्च, क्षिप्त्वा होमः करिष्यते ॥ १७॥
उष्णशीतजलैर्वह्नावासिक्ते स्वर्णपूरुषः । भविष्यति क्षणादेव, महामन्त्रप्रभावतः ॥ १८॥ श्रुत्वेति धर्मदत्तोऽवक्, प्रसद्य त्वं कुरूद्यमम् । तेनोक्तं किं सुवर्णेन, कार्य मे? योगिनो वयम् ॥१९॥ परं तवैव कार्याय, परोपकृतिहेतुतः। उपक्रम करिष्येऽथोपकारे दुर्लभा मतिः ॥ ८२० ॥ यतः-लक्ष्मीः परोपकाराय, विवेकाय सरस्वती । सन्ततिः सर्वसौख्याय, भवेद्वन्यस्य कस्यचित् ॥२१॥ परोपकाराय कृतघ्नमेतञ्चलं शरीरं यदि याति यातु।काचेन चेद्वज्रमणिं लभेत, मूर्योऽपि किं नेति पुनर्ब्रवीति । धर्मदत्तः पुनः प्राह, भगवन् ! विश्वपावनः । तवेदृशी मतिः पुण्ये, यत्परार्थाय खिद्याति(सि) ॥२३॥ यतः-निष्पेषोऽस्थिचयस्यदुस्सहतरः कष्टं तुलारोपणम् , ग्राम्यस्त्रीकरलुश्चनव्यतिकरस्तन्त्रीप्रहारव्यथा। मातङ्गोज्झितगल्लवारिकणिकापातञ्च कूर्चाहति, कर्पासेन परार्थसाधनकृते किं किं न चाङ्गीकृतम्॥२४॥ योगिनोक्तं महाभाग ! सपादलक्षपर्वतात् । शीतमुष्णञ्च पानीयं, आनीयेते प्रयत्नतः ॥ २५॥
܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܀ ܨܶ܀ ܀
॥४३॥
Jan Education
Optional
For Private Personel Use Only