________________
॥४२॥
धर्मदत्तोऽब्रवीदेव ! निर्धनत्वे कुतः सुखम् ? । कथं भवामि निश्चिन्तो, यदि दारिद्रयपीडितः ॥ ९८॥ महा कपाली प्राह रे मां किं, न वेत्सि ? त्वमियदिनैः । दारिद्रकन्दकुद्दाल, इति मे बिरुदं स्फुटम् ॥१९॥ गाहा-मयणदेव ईसर दहिउ, लङ्क दही हणुमण। पाण्डुउवन अरजुन दहिड, पुण दालिद्द न केण८००० दारिद्रदहनो नाम, मदीयं वर्त्तते भुवि । श्रुत्वा तद्धर्मदत्तोऽपि, दृष्टस्तं प्रणनाम च ॥१॥ पृष्ठे दत्वा कर योगी, प्रोचे चिन्तां विमुञ्च भोः! । लक्ष्मी तव गृहे दासी, करोमि स्वल्पकालतः ॥२॥ अथोचे धर्मदत्तोऽपि, केनोपायेन हे विभो! । करिष्यसि द्रुतं दासी, कमलां ? कथ्यतां मम ॥३॥ योग्यूचे साधयिष्यामि, सहिने स्वर्णपौरुषम् । चिन्तितं धर्मदत्तेन, कार्या रक्षाऽऽत्मनो मया ॥४॥ मामेव स्वर्णपुरुषं, मन्ये योगी करिष्यति । निःशूका योगिनः सर्वे, किलेदं श्रूयते पुरा॥६॥ विचिन्त्येति स तं प्रोचे, त्वं योगिन ! जीवघाततः । करिष्यसि नरं हैमं, कार्यं तन्नास्ति तेन मे ॥६ ॥४२॥ योग्यवादीदरे हाहा, जीवघातं करोति कः? । ईदृशो नाथमार्गो यद्रक्ष्यन्ते सर्वजन्तवः ॥ ७॥ यतः-तत् श्रुतं यातु पातालं,तचातुर्य विलीयताम् । ते विशन्तु गुणा वही, यत्र जीवदया नहि ॥८॥
Jain Educalan
g
a
For Private Personel Use Only
O
w
.jainelibrary.org