SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ यतः-बुधजने विहिता च दरिद्रता, बत कृता च जरा वनिताजने । हतधवा सुनवा च कुलाङ्गना, विधिरहो बलवानिति मे मतिः॥ ७९० ॥ इत्यादि प्रलपन्नेष, स्वगृहं प्रति निर्ययौ । ततश्चन्द्रपुरं प्राप्य, प्रवेशेऽचिन्तयत्पुनः ॥ ११ ॥ हा मूढ ! धर्मदत्त त्वं, अनात्मज्ञ ! क्व यासि रे । निद्रव्यो भनपोतोऽहं, कथं यामि निजे गृहे? ॥९२॥ स्वजनानामभाग्योऽहं, दर्शयामि कथं मुखम् ? । दुर्जनाः सधनाः सर्वे, हसिष्यन्ति मुहुर्मुहुः ॥ ९३ ॥ यतः-वरं वनं व्याघ्रभुजङ्गन्सेवितं, द्रुमालये पुष्पफलाम्बुभोजनम् । भिक्षाशनं वा विषभक्षणं वरं, न बन्धुमध्ये धनहीनजीवितम् ॥ ९४ ॥ यतः-कपिकुलनखमुखविदलिततस्तलपतितानि भोजनं प्रवरम् । न पुनर्धनमदगर्वितभूभङ्गविकारिणी दृष्टिः ॥ ९५ ॥ विचिन्त्येवमसौ पश्चाद्वलितोऽगाइनान्तरे । तत्र वारिफलाहारं, कुर्वस्तस्थौ मृगेन्द्रवत् ॥ ९६ ॥ भ्रमन्नन्येचुरेकेन, दृष्टः पृष्टश्च योगिना । दृश्यसेऽहो सचिन्तस्त्वं, चिन्तां ते वद मेऽग्रतः॥ ९७॥ Jan Educati or www.jainelibrary.org For Private Personal Use Only onal
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy