SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ काव्यम्-तत्र धाम्नि निवसेद् गृहमेधी, संपतन्ति खलु यत्र मुनीन्द्राः । __यत्र चैत्यगृहमस्ति जिनानां, श्रावकाः परिवसन्ति च यत्र ॥ ७२ ॥ ततस्तौ दम्पती तस्मात्स्थानकाचेलतुः शनैः । वासभूमौ च संप्राप्तौ, ग्रामाणि नगराण्यपि ॥७३॥ क्रमाच्चन्द्रपुरासन्ने, देशमध्ये च तौ गतौ । वनमध्येऽन्यदा सायं, श्रान्तौ सुप्तौ च निर्भयौ ॥ ७४ ॥ धर्मदत्तो जजागार, पाश्चात्यनिशि सोद्यमः । स्मृत्वा पञ्चनमस्कारं, धर्मध्यानं तथाऽकरोत् ॥७५॥ अथ सूर्योदयात्पूर्व, प्रियाजागरणाय सः । बभाषे हर्षमाश्रित्य, सूक्तमेवं महार्थकम् ॥ ७६ ॥ काव्यम्-प्रोज्जृम्भते परिमलः कमलावलीनां, शब्दायते क्षितिरुहोपरि ताम्रचूडः। शृङ्गं पवित्रयति मेरुगिरेर्विवस्वानुत्थीयतां सुनयने ! रजनी जगाम ॥ ७७ ॥ प्रोक्ते सूक्तेऽपि सा पत्नी, तदा दत्ते स्म नोत्तरम् । क्षणमेकं प्रतीक्षित्वा, प्रबोधायाऽपठत्पुनः ॥ ७८॥ एते व्रजन्ति हरिणास्तृणभक्षणाय, चूणि विधातुमथ यान्ति हि पक्षिणोऽपि । मार्गस्तथाऽपि सुवहः किल शीतलः स्यादुत्थीयतां प्रियतमे ! रजनी जगाम ॥ ७९ ॥ Jain Educati o na For Private & Personel Use Only odww.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy