SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ पत्नी प्रोचे मया प्रोक्तं, नाथ ! प्रश्नोत्तरं द्रुतम् । चेत्त्वं जानासि तन्नूनं; तवाहं पदरेणुका ॥ ५९ ॥ कथं संबोध्यते राजा, सुग्रीवस्य च का प्रिया। दरिद्रिणः किमिच्छन्ति, किङ्कर्वन्ति तपोधनाः ? ॥७६०॥ विमृश्याथ पतिः प्रोचे, प्रिये ! ज्ञातं तवोदितम् । देवताऽऽराधनं ह्येतत् , कर्तव्यं विबुधैः सदाः ॥६१ ॥ इत्थं विनोदतोऽत्यन्तं, गतः कालः कियानपि । अन्यदा वल्लभा प्रोचे, पतिं प्रति सुधर्मिमणी ॥ ६२॥ नाथात्र मृगवत् स्वीयं, यात्यायुधर्मवर्जितम् । आवयोर्वा वृथोत्पत्तिररण्ये मालती यथा ॥३॥ श्लोकः-न देवपूजा न च पात्रपूजा, न श्राद्धर्मश्च न साधुधर्मः। लब्ध्वाऽपि मानुष्यमिदं समस्तं, कृतं मयाऽरण्यविलापतुल्यम् ॥ ६४ ॥ मानुषंभवमवाप्य दक्षिणावर्त्तववदमुंभवाम्बुधौ।पूरयेत्सुकृतगङ्गवारिणा, पापवृत्तिसुरया न चोत्तमः६५ ।। काव्यम्-पूजामाचरतां जगत्रयपतेः सङ्घार्चनां कुर्वतां, तीर्थानामभिवन्दनं विदधतां जैनं वचः शृण्वतां । सद्दानं ददतां तपश्च चरतां सत्त्वानुकंपाकृताम्, Jain Educator 1 For Private Personel Use Only Alw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy