________________
ܐ
देवतार्चनवेलायां, प्रस्तावं प्राप्य सत्त्ववान् । स्थित्वा रक्षसपृष्ठौ द्राक्, कुमारः खड्गमग्रहीत् ॥ ७५० ॥ महा. ॥३९॥ गृहीत्वासि दृढं मुष्टो, भूत्वाऽग्रे हक्कितः सुरः । रे राक्षस ! दुराचार, रुष्टो देवस्तवाधुना ॥ ५१ ॥
श्रुत्वैवं यावदुत्तस्थौ, स कोपाकुललोचनः । तावत् द्राग् धर्मदत्तेन, हतश्च हस्तलाघवात् ॥५२॥ तितो धनवती तस्य, भुजं पुष्पैरपूजयत् । स्वपतेः कुशलं वीक्ष्य, प्रमोदश्च दधौ हृदि ॥ ५३॥
तो निःशङ्कग वने तत्र, द्राक्षाम्रकदलीफलैः । कृताहारौ सुखेनैव, युग्मिवत्संस्थितौ तदा ॥ ५४ ॥ राज्यतुल्यं वनमपि, स्वेच्छादिकसुखे भवेत् । विरहाद्यसुखे राज्यं, दुस्सहं काननादपि ॥ १६ ॥ तथा मिथः कथागाथाकाव्यप्रहेलिकादिभिः। कुर्वन्तौ कौतुकं कालं, तावगमयतां मुदा ॥ ५६ ॥ धर्मदत्त उवाच
अपूर्वोऽयं मया दृष्टः, कान्ते कमललोचने!।
मध्ये शोर्यदि जानासि, तदाऽहं तव सेवकः ॥ ५७ ॥ क्षणं विमृश्य नायूंचे, हुं ज्ञातं खामिनोदितम् । पतिरूचे कथं ? साऽऽह, अशोक इति कथ्यते ॥५८॥
l
Jain Educat
ww.jainelibrary.org
For Private Personal Use Only
i
onal