SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अथ चन्द्रपुरात्कोऽपि, ज्योतिःशास्त्रविशारदः । शृण्वन्त्यां मयि तातस्तं जगाद गणकं प्रति ॥१७॥ वृद्धा जाता सुतैषा मे, कानुरुपो वरो नहि । ज्योतिर्वित् ! त्वं जगद्ज्ञाता, सुतातुल्यं वरं वद ॥ १८ ॥ जन्मपत्र्यनुमानेन, ग्रहमेलापकं शुभम् । दृष्ट्वाऽथ वाडवः प्रोचे, शृणु त्वं श्रेष्ठीसत्तम ! ॥ १९ ॥ इभ्यश्चन्द्रपुरे जातः, श्रीपतिः श्रीमतीप्रियः । धर्म्मदत्तोऽस्ति तत्सूनुः, सुकृती सुभगाग्रणी ॥ ७२० ॥ तदा हृष्टात्मना श्रेष्ठी, पुनः पप्रच्छ तद्गुणान् । विप्रः प्रोचे मया नैव, दृष्टस्तत्सदृशो भुवि ॥ २१ ॥ विद्यावयोयशोभाग्य कृतज्ञत्वादितद्गुणाः । षोडशस्वर्णकोटीनां, भोक्ता यो वेश्यया सह ॥ २२ ॥ विप्रवाक्यं निशम्यैवं, स श्रेष्ठी पुनरब्रवीत् । मत्पुत्रीं धर्मदत्ताय, दास्याम्यन्यत्र न क्वचित् ॥ २३ ॥ लग्नं पश्य महाशुद्धं, शुभयोगसमन्वितम् । विप्रोऽवादीत्पञ्चदशदिनान्ते लग्नमुत्तमम् ॥ २४ ॥ अस्मिन्वर्षे परं लग्नं, नास्त्येवोत्तममीदृशम् । श्रेष्ठी प्रोचे दिनै स्तोकैः कथं स्यातां गमागमौ ? ॥ २५ ॥ कर्तुं विवाहकार्याणि शक्यते नैव विस्तरात् । सुतामादाय तत्राहं, ततो यामि कुटुंम्बयुक् ॥ २६ ॥ विप्रं सन्तोष्य दानेन, सज्जीभूतः स श्रेष्ठीराट् । आरुरोह महापोतं, सकुटुंबसुतायुतः ॥ २७ ॥ Jain Educaremational For Private & Personal Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy