SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ||३७|| Jain Education गाहा-जायाइ हवइ सोगो, वढन्तीए य वढए चिन्ता । परिणीयाए दण्डो, सुयासमा वेयणा नत्थि ॥ ९ ॥ यतः - प्रार्थना न कृता येन, जाता यस्य न कन्यका । स्वाधीना यस्य वृत्तिश्च सुखं जीवन्ति ते त्रयः ७१० तदा मे जनकेनैवं, भूयोऽपि हृदि चिन्तितम् । भाग्यवान् यो गुणैर्युक्तस्तस्यैषा दीयते सुता ॥ ११ ॥ जातिरूपवयोविद्या, आरोग्यं बहुपक्षता । उद्यमो वृत्तयुक्तत्वमष्टावेते वरे गुणाः ॥ १२ ॥ | यतः - मूर्खनिर्धन दूरस्थशूरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणामपि देया न कन्यका ॥ १३ ॥ काव्यम् - न्यायोपात्तधनाधिपो विनयवान् धीमान् कुलीनाग्रणी, रूपैर्न्यत्कृतमन्मथो बलिरिव त्यागेन भोगप्रियः । शिष्टाचारविचारकौशलकलापाण्डित्यधर्मप्रियः, प्रीत्याभाषणसंमदामृतमयः प्राणेश्वरो दुर्लभः ॥ १४ ॥ वरार्थेऽथ महेभ्यानां, बहूनामङ्गजन्मनाम् । वीक्षिता जन्मपत्र्योऽपि सदृशः कोऽपि नाऽमिलत् ॥ १५ ॥ तातेनाचिन्ति किं कुर्वे, जन्मपत्र्यादियोगतः । आलोक्यालोक्य भग्नोऽहं, मत्सुतासदृशं वरम् ॥ १६ ॥ For Private & Personal Use Only tional महा. ||३७|| ww.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy