SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सहायसहितं सापि, बहुमानं सगौरवम् । भोजयामास सा राद्धैघृतपूरैः पुराकृतैः ॥ ६६० ॥ युग्मम् । उक्तञ्च-तिया तिन्नि उ वल्लह, कलिकजलसिन्दूर । अन्नवि तिन्निवि वल्लहा दूधजमाईतूर ॥ ६१ ॥ भुक्त्वा तस्मिन् गते ग्राम, हट्टात् श्रेष्ठी समागतः। स्नानस्य देवता या, मनोरथमथाकरोत् ॥६२॥ सा भ्रमं घृतपूराणां, रक्षन्ती प्रियमालपत् । मध्यन्दिनमतिक्रान्तं, मझु भुव बुभुक्षितः॥ ६३ ॥ विवेकेनाद्य भोक्तव्यमिति विस्तरकारणम् । घृतपुरभ्रमधरं, वारयामास सा न तम् ॥ ६४ ॥ संपूर्णकृत्यं सापत्त्यं, विशालस्थालधारिणम् । सस्पृहं घृतपूरार्थे, निषण्णं वीक्ष्य साहसत् ॥ ६ ॥ अन्नमप्यर्धपक्कञ्च, करवाणि कथं प्रिये ? । स्वादूनि घृतपूराणि, जगासे दुहिता पतिः ॥ ६६ ॥ इति तद्वचनाजातास्तोकशोकः स कोपनः । पतन्तु दन्ता जामातुरष्टवर्षीयबालवत् ॥ ६७॥ वजं पततु तन्मूर्भि, यथा गिरिवरे पुरा । विद्युत्पततु तन्मुण्डे, कांस्यपात्र इवाद्भुता ॥ ६८ ॥ सदा रुष्टः सदा क्रूरः, सदा पूजां प्रयच्छति । कन्याराशिस्थितो नित्यं, जामाता दशमो ग्रहः ॥ ६९ ॥ इति यावद्विमृशति, तावत्सा घृतदायिनी । गाढशब्दं च नर्दन्ती, शाकिनीवाऽऽगमगृहे ॥ ६७० ॥ Jain Education na For Private & Personel Use Only Phw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy