SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ यज्ज्येष्ठा बान्धवाः सप्त, बभूवुःखण्डमण्डनाः। भाग्यात्त्वमेव राजाभूर्ने दं(नाह) किं ? राजिलोऽब्रवीत्३९ शत्रुपीडादिकं चेत्त्वं, व्यवसायं करोषि न । तत्ते कुतो राज्यवृद्धिर्द्वितीयोप्यगदन्नृपम् ? ॥ ६४० ॥ अथवा स्थालनिक्षिप्तेनैवेद्यैः मनसः प्रियैः। कवलव्यवसायातु, विना तृतिर्न जायते ॥४१॥ ततो हास्यरुषाक्रान्तो, नरेन्द्रो निजपूरुषैः । निरिकूपे चिक्षेप, तावुभौ मानदुर्द्धरौ ॥ ४२ ॥ सुष्वाप राजिल इव, राजिलः कूपमध्यगः। अभितस्तत्र बभ्राम, रत्नोऽपि व्यवसायवान् ॥४३॥ मध्यन्दिने नृपोऽप्रेषीत्, सदयो मोदकाष्टकम् । ते जाग्रता जगृहिरे, रत्नेनावटवर्तिना ॥ १४ ॥ प्रबोध्य तत्र रत्नोपि, राजिलञ्च वितर्कयन् । तेषामधैं दयापूर्व, ददौ मुदितमानसः ॥ ४५ ॥ अपराह्ने समाकृष्टौ, कूपाद्भपेन जल्पितौ । प्रौढं प्राशंस भाग्याय, राजिलो रङ्गसङ्गतः ॥४६॥ देवाऽस्य भ्रमतोऽभूवन्, यावन्तो मोदकाः श्रमात् । प्रसुप्तेनापि तावन्तो, लेभिरे हेलया मया ॥४७॥ रत्नोऽब्रवीत्कृपापूर्व, त्वं विनिद्रो मया कृतः । रेरे तुभ्यं मतिं दत्वा, भाग्येनाहं प्रबोधितः ॥ १८ ॥ भूयोऽपि मोदकन्यस्तामयाचन्मुद्रिकान्तयोः । समर्थो राजिलः शीघ्रमार्पयत्तां स्मिताननः ॥ १९ ॥ Jain Education Internet For Private & Personel Use Only Narelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy