________________
॥श्शा
स्वस्थानात्पदमात्रमप्यचलतो वन्ध्यस्य चानेकशो, जायन्ते मधुपालिपालितयशःश्रीलम्भिनः
कुम्भिनः॥ ३१॥ केषाञ्चिन्निजवेश्मनि स्थितवतामालस्यवश्यात्मनां,दृश्यंते फलिता लता इव मुल(सदा मुक्ताव)चूलश्रियः । अब्धि लङ्घयतां खनिञ्च खनतां क्षोणीतलं प्रेक्ष (पश्य)तामन्येषां व्यवसायसाहसवतां तन्नास्ति
यद्भुज्यते ॥ ३२॥ यद्भविष्याधिको धीरैः, व्यवसायः प्रकीर्त्यते । तस्मादप्यधिको लोके, भाग्यवान राजिलो यथा ॥३३॥ स्यातां गान्धर्वनगरे, वणिजौ रत्नराजिलौ । अहर्निशं तौ निष्कायौँ, विवदेते मदोद्धरौ ॥ ३४॥ मन्यते व्यवसायस्य, साफल्यं रत्नसंज्ञितः । राजिलो दीर्घदृक्काम, भाग्यमेव प्रशंसति ॥ ३५॥ निषेध्यमानो लोकेन, हठात्तौ न विरेमतुः । तावद्विदितवृत्तेन, पपृच्छाते महीभुजा ॥ ३६ ॥ कुतो रे निष्फलं वादं, कुर्वीयाथामसौख्यदम् । यद्यस्य मनसा भाति, तन्निन्द्यमपि सुन्दरम् ॥ ३७॥ स्वान्ययोः क्वापि सौख्याय, विपरीताः कृताः क्रियाः । यथा स्याद् व्यासविश्रान्तिः, गक्रतुनतिर्यथा३८
jainelibrary.org
Jain Education
For Private Personal Use Only
l ional