________________
पत्नी प्रोवाच वक्ष्येऽहमुपायं ते धनार्जने । तावच्च स्वस्थचित्तेन, प्रथमं भोजनं कुरु ॥ २२ ॥ स्नात्वा देवार्चनं कृत्वा, कृत्वा च भोजनं ततः । चिन्तितं तेन भार्या किं, निधानं दर्शयिष्यति ? ॥२३॥ क्षणं विश्रम्य सा पृष्टोपायः कः कथ्यतां प्रिये ! । तयोक्तं लक्षमूल्यानि सन्त्यङ्गाभरणानि मे ॥ २४ ॥ तेषां मध्यात्पञ्चशतदीनारमूल्यकुण्डलम् । विक्रीय तेन द्रव्येण, व्यवसायं कुरु प्रिय ? ॥ २५ ॥ ततोऽसौ तेन वित्तेन, व्यवसायं व्यचिन्तयत् । पूर्वं कोटीश्वरस्तेन, चित्ते नायाति तद्गतम् ॥ २६ ॥ ततोऽवादीत्प्रिये ? पूर्वमहं कोटीश्वरोऽभवम् । अत्राल्पव्यवसायांश्च कुर्वन् लज्जामि साम्प्रतम् ॥ २७॥ तेनाहं यानपात्रेण, किञ्चिल्लात्वा पयोनिधौ । कस्मिन् द्वीपे गमिष्यामि, नो द्रव्यं नीरधिं विना ॥ २८॥ यतः - इक्षुक्षेत्रं समुद्राश्च, जात्यपाषाण एवच । प्रसादो भूभृतां चैव, क्षणाद् घ्नन्ति दरिद्रताम् ॥ २९ ॥ अथोक्तं प्रियया तस्य किं समुद्रेण साम्प्रतम् ? । सर्वथा सर्वकार्येषु, भाग्यमेव प्रशस्यते ॥ ६३० ॥
काव्ये
पुण्यादेव समीहितार्थघटना नो पौरुषात्प्राणिनाम्, यद्भानोर्भ्रमतोपि नाम्बरपथे स्यादष्टमः सैन्धवः ।
Jain Education onal
For Private & Personal Use Only
jainelibrary.org