SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ धर्म. ॥३२॥ Jain Education Intel आत्मानं व्यसनासक्तं, निन्दन् गेहान्तरे गतः । कर्त्तयन्तीं प्रियां दृष्ट्वा, मुमोचाश्रूणि दुःख्यसौ ॥१२॥ दृष्ट्वा तं पुरुषं साप्याकारेङ्गितगुणैर्ध्रुवम् । उपलक्ष्य पतिं स्वीयं प्रतिपत्तिमथाकरोत् ॥ १३ ॥ यतः - प्रजानां दैवतं राजा, पितरौ देवता सताम् । सुशिष्याणां गुरुर्देवो, नारीणां दैवतं पतिः ॥ १४ ॥ गाम्भीर्यं धैर्यमौदार्य, चतुरत्वं विलोभता । सर्व्वंसहत्वमाधुर्यमार्जवस्तु स्त्रियां गुणाः ॥ १५ ॥ आचमनं तया दत्वा, मुक्तञ्च वरमासनम् । उपविष्टे प्रिये गेहस्वरुपं कथितं च तत् ॥ १६ ॥ सखेदं दिग्मूढमिव, प्रेक्ष्य कान्तं तु साब्रवीत् । प्राणेश ! त्वं यदा दक्षस्तदा किञ्चितं नहि ॥ १७ ॥ यदा त्वं सावधानत्वात्सर्वचिन्तां करिष्यसि । भविष्यति तदा भव्यं मा कार्षीः खेदमात्मनः ॥ १८ ॥ तदा प्राणप्रियोप्याह, प्रिये खेदः कथं नहि ? । निर्धना नरनार्यो हि शवस्य सदृशी (शी) मताः ॥ १९ ॥ यतः - यस्यार्थास्तस्य मित्राणि, यस्यार्थस्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके, यस्यार्थास्तस्य जीवितम् ॥ ६२० ॥ गाथा - जाई विज्जा रूवं, तिन्निवि निवडन्तु कन्दरे विवरे । अत्थुच्चिय परिवड्ढड, जेण गुणा पायडा हुन्ति २१ For Private & Personal Use Only महा. ॥३२॥ ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy