________________
तद्गृहे प्रेषिता दासी, पश्चादागाद्धनं विना । गृहे निर्धनतां ज्ञात्वाऽक्वया निष्कासितोऽथ सः ॥ २ ॥ निर्द्रव्यो नाति क्वापि, गृहे बाह्येपि सर्वथा । गोविन्दो ग्राममध्ये च, रुद्रोऽरण्ये नु सर्वदा ॥३॥ साकारोपि सविद्यापि, निद्रव्यः क्वापि नाति । व्यक्ताक्षरस्तु वृत्तोपि, द्रम्मः कूटो विवर्यते ॥४॥ दासः सर्वोपि वित्तस्य, सेवन्ते निजनन्दनाः। पक्षिणोपि रथाङ्गाद्याः, सरः शुष्कं सरन्ति किम् ? ॥५॥ सस्नेहो धर्मदत्तोऽपि, चिरकालोपसेवितः । एकवारमनायाते, द्रव्ये निष्कासितस्तया ॥ ६॥
यतः-सद्भावो नास्ति वेश्यानां, स्थिरता नास्ति संपदाम् ।
विवेको नास्ति मूर्खाणां, विनाशो नास्ति कर्मणाम् ॥ ७ ॥ विरक्ता प्राणसन्देह, धनहानि पराभवम् । करोति सर्वमप्येवं, वेश्या दुर्जनवन्नृणाम् ॥८॥ श्लोकः-अभ्रच्छाया तृणादग्निः, खले प्रीतिः स्थले जलम् । वेश्यारागः कुमित्रञ्च, षडेते बुद्दोपमाः॥९॥ इत्यादि चिन्तयन्धर्मदत्तो निजगृहेऽगमत् । अपश्यद् गृहचेष्टाञ्च, दुस्थावस्था समागतः ॥ ६१०॥ प्रतोली पतिता यत्र, भित्तयः सन्ति जर्जराः। कपाटानि च भग्नान्यावासान् सोऽपश्यदीदृशान् ॥११॥
For Private Personal Use Only
O
Jain Education in
ainelibrary.org