SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ महा ॥३१॥ वेश्यालुब्धस्य तौ मातापितरौ तस्य विस्मृतौ । निःशाङ्क रममाणस्य, सञ्जातं वर्षसप्तकम् ॥ ९१॥ अन्यदा श्रेष्ठिना गेहे, सुतस्याकारणं कृतम् । नायात्यसौ कथमपि, जातौ तौ दुःखितौ तदा ॥ ९२ ॥ श्रेष्ठयूचे देवतावाणी, स्यात्कल्पान्तेपि नान्यथा । यो मया शङ्कितो धर्मस्तत्कर्म समुपागतम् ॥ ९३ ॥ अकार्यकार्यतः क्षुण्णावूचतुर्दपम्ती मिथः। यतोऽयं स्वकृतो दोषः, परं कस्य च कथ्यते ॥ ९४॥ यतः-आत्मापराधवृक्षस्य, फलान्येतानि देहिनाम् । दारिद्ररोगदुःखानि, बन्धनव्यसनानि च ॥१५॥ बाढं वेश्यारले पुत्रे, श्रीपतिः श्रीमतीयुतः । शुशोच स्वकृतं दोषं, यत्सुतो द्यूतकृत् कृतः ॥ ९६ ॥ पूर्वमुड्डाप्यते हस्ताद्यथा पश्चासदिष्यते । दत्वा प्राग् द्यूतकारेभ्यः, पुत्र आकार्यते तथा ॥ ९७ ॥ । अथापुत्रमिवात्मानं, मन्वानौ तौ हि दम्पती । मुक्त्वा चिन्तां तदा जातो, धर्मध्यानपरायणौ ॥ ९८ ॥ विपन्नौ तौ शुभध्यानाजातौ देवो महर्धिकौ । मातापित्रोम॒तिं श्रुत्वा, गेहे नागात्स नन्दनः॥ ९९ ॥ अप्रेषयद्धनं तस्य, भार्याऽयो भर्तृयाचितम् । क्रमाद्रव्ये गते जाता, सा कर्त्तनपरा सती ॥ ६०० ॥ यथा गाथा-कन्तविहणी कामिनी, केहनइ सरणइ जाइ । रहिटीडइ पूणी करी, पेट भरी जइमाइ ॥१॥ ॥३१॥ Jain Education lional For Private & Personel Use Only Objainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy