SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Jain Education गाहा-जहा जालं तु मीणाणं, कुरङ्गाणञ्च वागुरा । पीणं पासओ बन्धो, तहा नारी नराण य ॥ ५८० ॥ जे गरुआ गंभीरथिर, मोलूनांह (मोटो जीह) मरह । महिला ते वि भमाडिया, जिम करि घरीय घरट्ट ८९ ॥ आहूय कितवान् दक्षानर्पितः श्रेष्ठिना सुतः । इभ्यपुत्रं स्वहस्ते तं प्राप्य ते हर्षिता घनम् ॥ ८२ ॥ तद्दिने जलकेलिञ्चाम्बुकेलिं वनखेलनम् । सहैव धर्म्मदत्तेन, चक्रिरे द्यूतकारकाः ॥ ८३ ॥ जीवः स्वभावतो नीचसङ्गतिं कुरुते भृशम् । किं पुनः प्रेरितः पित्रा ?, गडौची निम्बमाश्रिता ॥ ८४ ॥ शिक्षा सा पैतृकी पूर्वा, पुण्यमार्गप्रवर्त्तिनी । त्यक्ता तेन तथा यद्वत्, मक्षिकाभिः सुचन्दनम् ॥ ८५ ॥ कलास्तस्य गताः शास्त्रं, विस्मृतं स्वल्पकालतः । उच्छृङ्खलो महान् जातो, निष्पन्नस्तस्करो विटः ॥ ८६ ॥ यथा दुग्धं विनष्टं स्याद्यथा कुथितकाञ्जिकम् । तथोत्तमकुलोत्पन्नो, विनष्टो दुस्सहो भवेत् ॥ ८७ ॥ अथ कामपताकाया, , वेश्याया मन्दिरे स च । मोहार्थं कितवैनत, इति तस्याश्च भाषितम् ॥ ८८ ॥ आवर्जनाऽस्य यत्नेन कर्त्तव्या गणिके ! त्वया । तवासौ कल्पशाखीव, वाञ्छितं पूरयिष्यति ॥ ८९ ॥ तत्र स्थितस्य तस्याथ, जनन्यप्रेषयध्घनम् । अमानन्द्रविणं नित्यं स्वेच्छया विलसत्यसौ । ५९० ।। tional For Private & Personal Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy