SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ व्यापाराः परवञ्चनानि सुढदश्चौरा महान्तो द्विषः, प्रायः सैष दुरोदरव्यसनिनः संसारवासक्रमः ॥६॥ यूतं सर्वापदान्धाम, घृतं दीव्यन्ति दुर्धियः । द्यूतेन कुलमालिन्यं, द्यूताय श्लाध्यतेऽधमः ॥ ६२ ॥ हे प्रिये ! शोभना नैव, बुद्धिरेषा यतः सुतः । कुसंसर्गात् कुतो दक्षो ?, जीवितः किं विषाद्भवेत् ? ॥६३॥ कुसङ्गास्किल दोषाः स्युः, सत्सङ्गात्सुगुणाः पुनः। न श्रुता किं पुरा वार्ता, वनस्थशुकयोदयोः ॥६४॥ वने क्वापि द्रुशाखायां, नोडे जातं शुकद्वयम् । तत्रैको जगृहे भिन्नैर्ग्रहीतस्तापसैः परः ॥६६॥ । किराततापसस्थाने, शृणुतस्तहचांसि तौ । कोऽपि राजा हयाकृष्टः, समागाद्भिल्लसन्निधौ ॥ ६६ ॥ लक्षयातिव्रजेत्कोटिरिति भिल्लशुकोऽवदत्।तच्छ्रुत्वा धाविता भिल्लाः, सर्वाङ्गेशोधितो नृपः ॥ ६७ ॥ नैव दृष्टं परं किञ्चिदश्वं लात्वा समागताः। पुनरेतत् शुकोऽवादीद्गता भिल्ला नृपान्तिके ॥ ६८ ॥ भूपं प्रत्यूचुरस्माकं, सत्यं ज्ञानी शुकोऽवदत् । गुप्तं किमस्ति ते पार्श्वे, सत्यं जल्पाभयं तव ॥६९ ॥ राजाऽऽह सोऽब्रवील्लक्षं, कोटिरायाति मद्हे । इत्युक्ते तुरगं दत्वा, भिल्लैर्मुक्तो नराधिपः ॥ ५७ ॥ अग्रे तु मुनिकीरेण, प्रोक्तं यात्यतिथिर्महान् । तापसैर्नृपमानीय, विहिताऽतिथिसत्क्रिया ॥ ७१ ॥ Jain Education Interrato For Private Personel Use Only jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy