SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 品 ॥२९॥ ***** ज्ञात्वा पठितमूर्खाणां स्वरूपं स्वचराननात् । आकार्य भूभुजा पुत्रा, व्यवहारविदः कृताः ॥ ५२ ॥ इति अव्यहारज्ञकथा । श्रीमती प्राह हे नाथ! यथा ते राजपुत्रकाः । पठिताः कथिता अज्ञास्तथायं तव नन्दनः ॥ ५३ ॥ लेखशाला पुण्यशाला कामशाला तृतीयका । पूर्वमुक्ता हि हे नाथ! वर्गत्रितयसाधने ॥ ५४ ॥ ततोऽयं धर्मदत्तोऽपि, कामार्थौ नैव सेवते । तथा कुरु यथा नाथ ! दक्षो भवति नन्दनः ॥ ५५ ॥ अथोचे श्रीपतिः पत्नी, कोऽप्युपायोऽस्ति कामिनि ! । कृते यस्मिन्नयं पुत्रः, सर्वत्र कुशलो भवेत् ॥ ५६ ॥ श्रेष्ठिनी प्राह पुत्रोऽयं, द्यूतकाराय दीयते । दक्षत्वं दिवसे स्तोकैः कुर्वन्ति कितवा नृणाम् ॥ ५७ ॥ इत्थं श्रुत्वाऽब्रवीत् श्रेष्ठी का कुबुद्धिरियं तव । उत्पन्ना विपरीता किं, मतिः सर्वार्थनाशिनी ? ॥ ५८ ॥ यतः - रुष्टो देवोऽपि किं कस्य, चपेटां दातुमुद्यतः । किन्तु तां दुर्म्मतिं दत्ते, यया रुलति रङ्कवत् ।। ५९ ।। द्यूतं वेश्यानुरागश्च धातुवादश्च विभ्रमः । योगिसेवा सदा रुष्टे, दैवेऽमी स्युः शरीरिणाम् ॥ ५६० ॥ कोपीनं वसनं कदन्नमशनं शय्याधरा पांसुला, जल्पोऽश्लीलगिरः कुटुम्बकजनो वेश्या सहाया विटाः; Jain Education ional For Private & Personal Use Only महा. ॥२९॥ w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy