SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Educatio वदनं दशनविहीनं, वाचो न परिस्फुटा गता शक्तिः । विगता चेन्द्रियवृत्तिः, पुनरपि वलयं कृतं जरया ४१ वृद्धाया मक्षिकादेशोपद्रवस्य निवारणे । नीरपानादिशुश्रूषाकृते मुक्तश्चतुर्थकः ॥ ४२ ॥ वृद्धायामथ सुप्तायां, मक्षिका मुखसंस्थिताः । उड्डापयन्नु वाचासौ रे युष्मान्वादयाम्यहम् ॥ ४३ ॥ युष्माभिर्मक्षिका नात्रागन्तव्यं कथ्यते धनम् । विकलास्ता न जानन्ति, पुनरागत्य संस्थिताः ॥ ४४ ॥ उड्डाप्य पुनरूचेऽसौ, वारयामि मुहुर्मुहुः । सुशिक्षामथ दास्यामि मम दोषो न दीयते ॥ ४५ ॥ इत्युक्त्वा मुशलं स्थूलमुत्पाट्य मक्षिकामिषात् । विमुक्तं तेन वृद्धाङ्गे, तद्घाताज्जरती मृता ॥ ४६ ॥ श्रेष्ठी निशम्य निर्घातमागाच्छीघ्रमुवाच च । किं कृतं रे महादुष्ट ! जननी मारिता मम ॥ ४७ ॥ सोऽप्याख्यत्किं मया चक्रे ?, मक्षिका वारिताः पुनः । न गच्छन्ति तदा शिक्षा, दत्ता चान्यत्कृतं नहि ४८ तस्या विधाय संस्कारं स श्रेष्ठी मातृशोकतः । रुदन्नस्ति गृहे यावत् तावत्तेऽप्यागतास्त्रयः ॥ ४९ ॥ गद्गदाक्षरमूचाते, रथमृत्युमुभौ नरौ । एकेनोक्तं प्रविष्टश्च तस्करः कूटकान्तरे ।। ५५० ॥ चतुर्णामपि चातुर्य, ज्ञात्वैतत् श्रेष्ठिना ततः । दत्वा च भोजनं किञ्चिद्, गृहान्निष्कास्य मोचिताः ॥ ५१ ॥ ational For Private & Personal Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy