SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रतिरूपमाज्यमध्ये, दृष्ट्वा चित्ते चमत्कृतः । श्रेष्ठिना कथितं सत्यं प्रत्यक्षश्चौर ईक्ष्यते ॥ २१ ॥ दास्यामि साम्प्रतं शिक्षामेवमुक्त्वाऽक्षिपत्क्षितौ । कूटकं तमधोव, गलं सर्पिः सतस्करम् ॥ २२ ॥ चिन्तितं तेन यात्वाज्यं कृतं रम्यं मयाधुना । मृतः पुत्रः परं वध्वा, लट्सटाटो निवारितः ॥ २३ ॥ अथ कूटङ्करे कृत्वा स पश्चाद्वलितो रयात् । रथस्थौ भ्रातरौ चान्यौ, द्वौ काष्ठाय वने गतौ ॥ २४ ॥ मार्गे रथस्य चित्कार शब्दं श्रुत्वेत्यवोचताम् । रोदत्येष रथः कस्मात् कश्चिद्रोगो विभाव्यते ॥ २५ ॥ मुक्त्वा रथं समुत्तीर्णो, तौ द्वौ यावदपश्यताम् । तावन्न श्रूयते शब्दो, मृतोऽसौ मौनमाश्रितः ॥ २६ ॥ एवं विचिन्त्य संस्कारं, विधाय शकटस्य तौ । स्नानार्थं तटिनीतीरे, गत्वा स्नानं च चक्रतुः ॥ २७ ॥ अथाऽस्मिन्समये तत्र, बान्धवो घृतविक्रयी । तृषात्तों जलपानार्थे, आगतो तटिनीतटे ॥ २८ ॥ त्रयोऽपि मिलितास्तत्र, बहिरागत्य नीरतः । मिथो जल्पन्ति नो नद्याः, विश्वासः क्रियते बुधैः ॥ २९ ॥ यतः- नदीनाञ्च नखीनाञ्च शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्त्तव्यः स्त्रीषु राजकुलेषु च ५३० इति मत्वा तदा मुग्धा, धूर्त्तत्वरहिता मिथः । गणयन्तो विनात्मानं, सर्वान्संभालयन्ति ते ॥ ३१ ॥ Jain Education Interherpe For Private & Personal Use Only ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy