________________
धर्म. वातश्लेष्मादिकारीणि, त्यक्त्वान्यव्यञ्जनान्यथ । सर्वरोगहरं निम्ब, लात्वा द्वितीय आगतः ॥५१०॥ महा. ॥२७॥ तृतीयो घृतमादाय, गच्छन्नेवमचिन्तयत् । घृताधारेऽत्र किं पात्रं, ? पात्राधारे नु किं घृतम् ? ॥११॥
परीक्षार्थमधः पात्रं, कृतं यावद्गतं घृतम् । घृतं यातु परं भग्नः, सन्देह इति सोऽब्रवीत् ॥ १२ ॥ वृषौ हृतौ च चौरेण, पश्यन्नपि चतुर्थकः । तरुच्छायाश्रितो मूर्यो, लग्नभावं व्यलोकयत् ॥ १३॥ स्थिरलग्ने स्थिरांशे च, स्थिरे भवति चन्द्रमाः। इति योगे समायाते, स्वयमायास्यतो वृषौ ॥ १४॥ इति ज्ञात्वा बलीवईवालनार्थं स नोत्थितः । मिलित्वा तेऽथ चत्वारः, पुरमध्ये समागताः ॥१५॥ भ्रमन्तस्तत्र दीनास्या, वराकास्ते बुभुक्षिताः । दिनस्य पश्चिमे यामे, सोमश्रेष्ठयापणे गताः ॥१६॥ प्रश्नपूर्व गृहे नीत्वा, दत्वा वैतालिकं ततः । प्रभाते श्रेष्ठिना तेषां, कार्य दत्तं पृथक् पृथक् ॥ १७ ॥ एकस्याज्यभृतः कूटो, विक्रयाथै समर्पितः । मार्गे भोः तस्कराः सन्ति, गन्तव्यं सावधानतः ॥१८॥8॥२७॥ एवं शिक्षा प्रदत्त्वाऽसौ, चालितो वेगतो गमन् । अर्धमार्गे महारण्ये, कूटमुद्घाट्य सोऽब्रवीत् ॥ १९॥ भो अत्र कोऽपि चोरोऽस्ति, स प्रकटीभवत्विह । उक्तैवं कूटमुद्घाव्य, यावदालोकयत्स्वयम् ॥ ५२० ॥
Jain Education
lainelibrary.org
a
For Private Personal Use Only
l