SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ सुकुले योजयेत् कन्या, पुत्रे विद्यां नियोजयेत् । व्यसने योजयेत् शत्रुमिष्टं धर्मे नियोजयेत् ॥ ९९ ॥ यन्त्रितो रासभोष्ट्रौ तौ, गृहीत्वा चलिताः पथि । तत्कौतुकं जनाः प्रेक्ष्य, जल्पन्तीति परस्परम् ॥५००॥ निद्रव्यं प्रेक्षणं लोका, एत्य पश्यत पश्यत । दक्षत्वं राजपुत्राणां, पठितानां हि दृश्यते ॥१॥ इति हास्यास्पदं जातास्ततो राज्ञा निराकृताः । नागन्तव्यमरे मूर्खा !, युष्माभिर्नगरे मम ॥२॥ रथ एको महाजीर्णो, वृषभद्वयसंयुतः । प्रधानवचसा राज्ञा, कुमाराणां समर्पितः ॥३॥ तं रथं ते समारुह्य, चेलुरेकदिशं प्रति । एकस्मिन्नगरासन्ने, कानने च समागताः ॥४॥ भोजनावसरे तत्राप्येकः पाकाय संस्थितः । एको जगाम शाकार्थमेको घृतकृते गतः॥५॥ एको गतो बलीवईचारणाय कुमारकः । पृथक् पृथक क्रियां कर्तुमेवं सर्वे समुद्यताः ॥ ६॥ जातः कलकलः शब्दः, पाकभाण्डान्तरे तदा । तेनाऽचिन्त्यस्य शब्दस्य, निष्पत्तिर्नास्ति लक्षणे ॥ ७॥ मिथ्याशब्दं वदन्त्येतदस्य शिक्षां ददाम्यहम् । ततो लकुटमुत्पाव्य, प्रहारं भाजनेऽमुचत् ॥ ८॥ भग्नं भाण्डमभून्मौनं, लग्ना शिक्षाऽस्य सत्यतः । इत्युदित्वा सुखं सुप्तो, निश्चिन्तो जडधीनरः ॥९॥ Join Education a l For Private Personal Use Only A jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy